पूर्णविजयसङ्कल्पोऽस्माकम्
पूर्णविजयसङ्कल्पोऽस्माकं, सततपरिश्रमशीलवताम् ।
आयुगमविरतमनुवर्तत इह राष्ट्रधर्मसमुपासनम् ॥
वन्दे मातृभुवं वन्दे, वन्दे जगदम्बां वन्दे ॥
पुण्यपुरातनदेशोऽस्माकं मानवतार्चनसक्तिमतां
प्रवहति पावनसंस्कृतिगङ्गा किल्बिषजातमपाददति ।
सकलविश्वमङ्गलसंरचने जुहोति सर्वोऽप्यात्मानं
आयुगमविरतमनुवर्तत इह राष्ट्रधर्मसमुपासनम् ॥
परमो मन्त्रः समरसता नः शक्तिसम्भृतं राष्ट्रमिदम् ।
पूर्वजगौरवगाथास्माकं मार्गदर्शिका प्रेरिका
भविष्यपथमुज्ज्वलमाधातुं शक्तिं सञ्चिनुमो नियतं
आयुगमविरतमनुवर्तत इह राष्ट्रधर्मसमुपासनम् ॥
मातृभूमिराराध्येयं नो गतिरस्माकं सैव परा ।
ईशकार्यमिदमेवास्माकं जीवितैकसङ्कल्पनं
सज्जननिर्मितकार्यपथेऽस्मिन् ननु यामो वयमनवरतं
आयुगमविरतमनुवर्तत इह राष्ट्रधर्मसमुपासनम् ॥
Encoded and proofread by Shubha shubhazero at gmail.com