पठन्तु संस्कृतम्

पठन्तु संस्कृतम्

आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् । आगच्छन्तु आगच्छन्तु आगच्छन्तु । वेदविज्ञान-ज्ञाननिधानं संस्कृतेन एव सम्प्राप्तम् । आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥ आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् । आगच्छन्तु आगच्छन्तु आगच्छन्तु । भवतां स्वागतं संस्कृतभवने । व्याकरणं आरम्भे पठामः । आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥ स्वराः अयोगवाहाः व्यञ्जनानि अक्षराणि भवन्ति । कण्ठ-तालु-मूर्धा-दन्ताः-ओष्ठौ-नासिका इति उत्पत्तिस्थानानि भवन्ति । श्रद्धया अद्यैव संस्कृतं वयं सम्यक् पठामः । आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् । आगच्छन्तु आगच्छन्तु आगच्छन्तु । श्रेष्ठपुराण-काव्यसाहित्यं संस्कृतेन एव सम्प्राप्तम् । आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥ लिङ्गत्रयं वचनत्रयं पुरुषत्रयं धातुत्रयं विभक्तयः तु सप्त । कर्तरि कर्मणि भावे इति त्रयः प्रयोगाः । श्रद्धया अद्यैव संस्कृतं वयं सम्यक् पठामः । आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् । आगच्छन्तु आगच्छन्तु आगच्छन्तु । न्यायमीमांसाधर्मशास्त्राणि संस्कृतेन एव प्राप्तानि। आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥ लट् लिट् लुट् ऌट् लेट् लोट् लङ् लिङ् लुङ् ऌङ् लकाराः । भ्वादिः अदादिः चुरादिः इत्यादयः दशगणाः सन्ति । श्रद्धया अद्यैव संस्कृतं वयं सम्यक् पठामः । आगच्छन्तु आगच्छन्तु पठन्तु संस्कृतम् । संस्कृतेन एव साफल्यं साध्यम् । आगच्छन्तु आगच्छन्तु आगच्छन्तु । अर्थगर्भित-जीवनतत्त्वं संस्कृतेन एव सम्प्राप्तम् । आगच्छन्तु आगच्छन्तु आगच्छन्तु ॥ -- रचयित्री - उषा जयरामन् । Composed, encoded, and proofread by Usha Jayaraman
% Text title            : Pathantu Samskritam
% File name             : paThantusaMskRRitam.itx
% itxtitle              : paThantusaMskRitam
% engtitle              : paThantusaMskRRitam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Usha Jayaraman https://www.youtube.com/@samskritapriya2020
% Proofread by          : Usha Jayaraman
% Description/comments  : Composed by Usha Jayaraman. Also sung with tune of Hindi song "jAneman jAneman tere do nayan"
% Indexextra            : (Video)
% Latest update         : April 13, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org