पञ्चमहायज्ञविश्लेषणम्

पञ्चमहायज्ञविश्लेषणम्

लेखकः - नन्दप्रदीप्तकुमारः तत्रादौ यज्ञशब्दार्थः व्याख्यायते । अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजं होतारं रत्नधातमम् (ऋ०वे०-१)इति सर्वप्राचीन वैदिक-अपौरुषेय-सिद्धान्तेन यज्ञस्य महनीयता सर्वव्यापकता च प्रमाणीक्रियते । तत्र ऋग्वेदे (१/१६४/३५) अयं यज्ञो भुवनस्य नाभिः । अथर्वेऽपि (९/१०/१४) यज्ञो विश्वस्य भुवनस्य नाभिः, यज्ञेन यज्ञमयजन्त देवाः (यजु०३५/१६) यज्ञ इन्द्रमवर्धयत् (साम०-१३३९)इत्यादिषु सर्वेषु वैदिकग्रन्थेषु विश्वस्य जगतः केन्द्ररूपो यज्ञः देवानां जनकत्वेन पोषकत्वेन च स्वीकृतोऽस्ति । शतपथब्राह्मणस्य एकादशतमे काण्डे भूतयज्ञ-मनुष्ययज्ञ-पितृयज्ञ-देवयज्ञ-ब्राह्मयज्ञादीनां प्रख्यातयज्ञ एव महायज्ञ नामाङ्कितोऽस्ति(११/५/६) । भारतीयसंस्कृतौ अस्य स्थानं महत्वपूर्णमत्यावश्यकमिति न विसंवादः । ज्ञान-कर्म-भक्तीनां त्रयाणां समाहार एव यज्ञे तिष्ठति । सर्वं यज्ञमयं जगत् (३१/४०) इति कालिकापुराणवचनात् यज्ञात् हि सृष्टिप्रक्रिया बलवत्तरा चलायमाना संजाता । यज्ञार्थात्कर्मणोऽन्यत्र लोकोयं कर्मबन्धनः (गी०-३/९) इति भगवद्वचनात् मनुष्याणां कृते सर्वाण्येव कर्माणि यज्ञस्वरूपाणि स्थिरीकृतानि । पुरुषजीवनं यज्ञस्वरूपमिति छान्दोग्योपनिषदि (३/१६ )दृश्यते । यज्ञदेवपूजासंगतिकरणादि यज् धातोः नङ् प्रत्ययेन यज्ञशब्दो निष्पन्नः । देवपूजार्थकत्वेन इन्द्रादिदेवानां सत्कारभावनं यज्ञः । संगतिकरणेन धर्मदेशजातिमर्यादारक्षायै महापुरुषाणामेकीकरणं यज्ञः । दानार्थेनापि देवतोद्देशेन श्रद्धापुरःसरं वह्नौ हविर्दानं यज्ञः । यज्ञः कस्मात्? प्रख्यातं यजति कर्मेति नैरुक्ताः (३/४/१९) आख्यायन्ते । यत्र प्रक्षेपाङ्गको देवतोद्देशपूर्वको द्रव्यत्यागोऽनुष्ठीयते स यागपदार्थः (४/२/१२) इति मीमासको भाट्टदीपिकाकारः । देवानां द्रव्यहविषां ऋक्सामयजुषां तथा । ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ॥ इति मत्स्यपुराण(१४४/४४) वचनेन कर्मविशेषे आहवनीयपदार्थ-द्रव्य-मन्त्र-ऋत्विज-दक्षिणानामेकीकरणेन यज्ञशब्दः सिद्ध्यति । शास्त्रेषु नानाविधाः यज्ञाः उक्ताः । तेषु पञ्चमहायज्ञाः सर्वेषां गृहस्थानां कृते अनिर्वायाः कथिताः । ते च मनुना- पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोपकुम्भश्च बध्यते यास्तु वाहयन् ॥ (३/६८) इत्युक्तम् । सूना नाम प्राणिवधस्थानम् । यत्र जीवहत्यारूपकं पापं विद्यते । तत्पापं पञ्चस्थानेषु संपद्यते । आदौ कण्डनीजनितम् । कण्डनी नाम उदूखल-मुसलाभ्यां निष्पन्नम् । द्वितीयं पेषणीजनितम् । तृतीयं चुल्लीजनितम् । चतुर्थं जलकुम्भजनितम् । तुर्यं तु उपस्कर-समार्जनी जनितं पापं यत्तु क्षुद्रजीवहननरूपमस्माभिः प्रतिदिनं क्रियते । सुतरामेतेषां पापानां क्षालनार्थं दैनिकं पञ्चमहायज्ञाः स्वीकर्त्तव्याः गार्हस्थैः । तथाहि- एतानि वाहयन् विप्रो वाध्यते वा मुहुर्मुहुः । एतेषां पावनार्थाय पञ्चयज्ञाः प्रकीर्त्तिताः ॥ अपि च- तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः । पञ्चक्लृप्ता महायज्ञाः प्रत्यहं गृहमेधिनः ॥(मनु०-३/६९)इति । ते तु शास्त्रे निर्दिष्टाः सन्ति । यच्चोक्तं- देवभूतपितृब्रह्ममनुष्यानामनुक्रमात् । महासत्राणि जानीयात्त एव हि महामखाः ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो देवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥(मनु०-३/७०) इति । तत्रादौ ब्रह्मयज्ञो निरूप्यते । सश्च वैदिकमन्त्राणां ब्रह्मसूत्राणां वेदांग-गीता-भागवतादिपुराणानां च अध्ययनमध्यापनम् । असौ ज्ञानयज्ञविशेषः । द्वितीयो पितृयज्ञः । परलोकगतानां पितॄणां कृते श्राद्ध-तर्पणादिकं कर्म । देवोद्देशेन संस्कृतवह्नौ घृतादिहव्यत्यागो देवयज्ञस्तृतीयः । बलिवैश्वदेवश्चतुर्थो भूतयज्ञः । पञ्चमो मनुष्ययज्ञः अतिथिसेवापरक उक्तः । एतेषां पञ्चयज्ञानामकरणेन प्रत्यवाय इति स्मृतिकारा निगदन्ति । गार्हस्थ्याश्रमेच्छुना उपरोक्तधर्माः सेवितव्याः, नित्यत्वात् । तथैवाह याज्ञवल्क्यः- श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥(१/७) इति । --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Text title            : Panchamahayajnavishleshanam
% File name             : panchamahAyajnavishleShaNam.itx
% itxtitle              : panchamahAyajnavishleShaNam (lekhaH)
% engtitle              : panchamahAyajnavishleShaNam
% Category              : misc, sahitya, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : May 13, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org