पञ्चरत्नम्

पञ्चरत्नम्

नागः पोतस्तथा वैद्यं क्षान्तिः शक्यं यथाक्रमम् । पञ्चरत्नमिदं प्रोक्तं विदुषामपि दुर्लभम् । नागो भाति मदेन कं जलरुहैः पूर्णेन्दुना सर्व्वरी शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् । वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं विष्णुना ॥ १॥ पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे निर्वाते व्यजनं मदान्धकरिणां दर्पोशान्त्यै श‍ृणिः । इत्यं तत् भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तत्तिहरणे धातास्ति भग्नोद्यमः ॥ २॥ वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं द्विजं युद्धे कापुरुषं इयं गतरयं मूर्ख परिब्राजकम् । राजानञ्च कुमन्त्रिभिः परिवृतं देशञ्च सोपद्रवं भार्यां यौवनगर्वितां पररतां मुञ्चन्तु शीघ्रं बुधाः ॥ ३॥ क्षान्तिश्वेत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद् दिव्यौषधैः किं फलं किं सर्यपैर्यदि दुर्जनः किमु धनैर्विद्यानवद्या यदि ब्रीडा चेत् किमु भूषणेन कविता यद्यस्ति राज्येन किम् ॥ ४॥ शक्यं वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपः नागेन्द्रो निशिताङ्कुशेन चपलौ दण्डेन गोगर्द्दभौ । व्याधिर्वैद्यकभेषजैरनुदिनं मन्त्रप्रभावाद् विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ ५॥ इति पञ्चरत्नं समाप्तम् । Encoded and proofread by Aaditya Kalyanaraman
% Text title            : Pancharatnam
% File name             : pancharatnam.itx
% itxtitle              : pancharatnam
% engtitle              : pancharatnam
% Category              : misc, subhaashita, panchaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888
% Indexextra            : (Scan 1, 2)
% Latest update         : June 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org