पश्य बाल
पश्य बाल आकाशं
अनन्तं अनन्तम् ॥
पश्य बाल भास्करं
अतिचण्डं अतिचण्डम् ॥
पश्य बाल चन्द्रमसं
सुशीतलं सुशीतलम् ॥
पश्य बाल सागरं
विशालं विशालम् ॥
पश्य बाल कृष्णघनं
जलपूर्णं जलपूर्णम् ॥
पश्य बाल विद्युतं
अतिचपलां अतिचपलाम् ॥
पश्य बाल इन्द्रधनुः
चित्रितं चित्रितम् ॥
पश्य बाल मातृमुखं
स्नेहमयं स्नेहमयम् ॥