पतिव्रतायाः श्रीपतिमङ्गलस्तोत्रम्
श्रीगणेशाय नमः ॥
ॐ नमः कान्ताय भर्त्रे च शिवचन्द्रस्वरूपिणे ।
नमः शान्ताय दान्ताय सर्वदेवाश्रयाय च ॥ १॥
नमो ब्रह्मण्यरूपाय सतीप्राणपराय च ।
नमस्याय च पूज्याय हृदाधाराय ते नमः ॥ २॥
पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च ।
ज्ञानाधाराय पत्नीनां परमानन्दरूपिणे ॥ ३॥
पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः ।
पतिश्च निर्गुणाधारी ब्रह्मरूप नमोऽस्तु ते ॥ ४॥
क्षमस्व भगवन् दोषं ज्ञानाज्ञानकृतं च यत् ।
पत्नीबन्धो दयासिन्धो दासीदोषं क्षमस्व मे ॥ ५॥
इदं स्तोत्रं महापुण्यं सृष्ट्यादौ यन्मया कृतम् ।
सरस्वत्या च धरया गङ्गया च पुरा व्रजे ॥ ६॥
सावित्र्या च कृतं पूर्वं ब्रह्मणे चापि नित्यशः ।
पार्वत्या च कृतं भक्त्या कैलासे शङ्कराय च ॥ ७॥
मुनीनां च सुराणां च पत्नीभिस्तु कृतं पुरा ।
पतिव्रतानां सर्वासां स्तोत्रमेतच्छुभावहम् ॥ ८॥
इदं स्तोत्रं महापुण्यं या शृणोति पतिव्रता ।
नरोऽन्यो वापि नारी वा लभते सर्वाञ्छितम् ॥ ९॥
अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ।
रोगी च मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ १०॥
पतिव्रता च स्तुत्वा च तीर्थस्नानफलं लभेत् ।
फलं च सर्वतपसां व्रतानां च व्रजेश्वर ॥ ११॥
इदं स्तुत्वा नमस्कृत्वा भुङ्क्ते सा तदनुज्ञया ।
एष पतिव्रताधर्म एष धर्मः सनातनः ॥ १२॥
इति श्रीब्रह्मवैवर्ते श्रीकृष्णनन्दसंवादे
पतिव्रतामाहात्म्ये पतिमङ्गलस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Jonathan Wiener wiener 78 at sbcglobal.net