पतिव्रतया करणीयं पतिस्तोत्रम्
उपचारैः पतिं स्तुत्वा प्रपूज्य प्रणमेत् सती ।
धूपं दीपं जलं भोज्यं दत्वा ताम्बूलमित्यथ ॥ ७०॥
नीराजयेत्पतिं प्रीत्या कृष्णनारायणात्मकम् ।
प्रदक्षिणं नमस्कारं कृत्वा च स्तवनं चरेत् ॥ ७१॥
``नमः कान्ताय सद्भर्त्रे'' शिरश्छत्रस्वरूपिणे ।
नमो यावत्सौख्यदाय सर्वदेवमयाय च ॥ ७२॥
नमो ब्रह्मस्वरूपाय सतीसत्योद्भवाय इव ।
नमस्याय प्रपूज्याय हृदाधाराय ते नमः ॥ ७३॥
सतीप्राणस्वरूपाय सौभाग्यश्रीप्रदाय च ।
पत्नीनां परमानन्दस्वरूपिणे च ते नमः ॥ ७४॥
पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः ।
पतिर्वंशधरो देवो ब्रह्मात्मने च ते नमः ॥ ७५॥
क्षमस्व भगवन् दोषान् ज्ञानाऽज्ञानविधापितान् ।
पत्नीबन्धो दयासिन्धो दासीदोषान् क्षमस्व वै ॥ ७६॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ३७७-अध्यायान्तर्गतं
पतिव्रतया करणीयं पतिस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ३७७/६०-७६॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 377/60-76..
Proofread by PSA Easwaran