फ्रान्सिस् बेकनदर्शनम्
लेखकः - नन्दप्रदीप्तकुमारः
देशः कालः परिचयश्च-
नाट्यकारः सेक्सपियरसमसामयिकः
फ्रान्सिस् बेकनः महान् दार्शनिक एव । इंलण्डदेशीय अयं महात्मा १५६१तमे ख्रीष्टाब्दे स्वास्तित्वसंपन्न आसीत् । जानुयारिमासस्य द्वाविंशतितमे दिनांके इंलण्डप्रदेशस्य लण्डन भूमण्डले इयर्कहाउस York house इत्यत्र कुलिने परिवारे सोस्जायत । निकोलास् बेकन् नामकस्तस्य पिता तदानीं महाराज्ञाः एलिजाबेथ् इत्यस्या महाशयायाः सम्पत्तिरक्षक आसीत् । माता लेडीआन्नेकुक् विशिष्टा एका साहित्यिका या लाटिन-ग्रीक् साहित्ययोः निष्णाता आसीत् ।
द्वादशवयसि बेकन् केम्ब्रिज् विश्वविद्यालयस्य ट्रिनिटि महाविद्यालयं गत्वा वर्षत्रयं यावत् विद्यार्जनं कृतवान् । विश्वविद्यालय-पठनसमये तन्मनसि ज्ञानानुरागः संपन्नः । तदानीं आरिस्टटलमहोदयस्य दर्शनस्य व्यापकता विश्वविद्यालये आसीत् । बेकन् तन्मतं नादृतम् । फलतः तेन विश्वविद्यालयः त्यक्तः । अष्टादशवयसि तस्य पितृवियोगो जातः । जीविकानिर्वाहार्थं नीतिशास्त्रं प्रपठ्य अधिवक्ता रूपेण आत्मानं स्थापयामास । द्वाविंशति वयसि पार्लामेण्ट सदस्यत्वेन निर्वाचितः । एटर्नी जेनेराल, लर्डचान्सेलर आदिपद-पदवीषु दक्षता तेन प्रदर्शिता । दर्शनशास्त्रसंस्कारे अन्धसंस्कारवाद प्रतिपादने तस्य निष्ठा सुदूरदर्शी सुदूरप्रसारी एव । १६२६ तमे ख्रीष्टाब्दे इहलीलां समाप्य परमधाम समवाप ।
बेकन् महोदयः महान् विद्वान् उत्कृष्टसाहित्यिकः कुशलराजनीतिज्ञः अत्यन्त चतुरो धीरसहिष्णुः इन्द्रियानुभववादी प्रयोगविज्ञानवादी तथा दार्शनिकश्च आसीत् ।
ज्ञानमीमासा (अन्धसंस्कारवादः)
प्रत्यक्षागमाभ्यां प्रकृतिपर्य्यवेक्षणपूर्वकं मूलतत्त्वस्य अन्वेषणं बेकनदर्शनस्य प्रधानलक्ष्यम् । तन्मतानुसारं ज्ञानार्जनं तु सर्वदा वैज्ञानिकपद्धत्या कर्त्तव्यम् । एतदर्थं पूर्वप्रचलितानां कुसंस्काराणां सर्वादौ परिहारः कर्त्तव्यः । यथा मलिनदर्पणे मुखस्य प्रतिविम्बो मलिनो दृश्यते तथैव कुसंस्काराच्छने मनसि प्रकृत्याः प्रतिविम्बाभावात् सम्यग्ज्ञानं नोदेति । एवं प्रियजनानां दोषादर्शनं अप्रियजनानां गुणदर्शनं च कुसंस्कारकारणाद् हि जन्यते । अन्धवत् यस्य कस्यापि मतं अग्रहणीयमिति एतादृशसिद्धान्त एव अन्धसंस्कारवादः फलितः । अयं अन्धसंस्कारवादः न केवलं व्यक्तिषु अपितु सामाजिकक्षेत्रे वैज्ञानिकक्षेत्रेपि बहुलतया दरीदृश्यते । समाजस्य चतुर्षु स्थानेषु ते अन्धसंस्काराः परिव्याप्ताः । यथा-१-जातिगतान्धसंस्कारः(Idola Tribes)
२-वैयक्तिकान्धसंस्कारः (Idola specus)
३-लोकायतान्धसंस्कारः (Idols of Market place)
४-नाट्यशालागतान्धसंस्कारः (Idols of the thearti)
१-जातिगतान्धसंस्कारः- अयं कुसंस्कारः मानवमात्रेषु व्यवह्रियते । सहजसंस्काररूपेणायं दोषो विचार्यते । जातिगत इत्यत्र न ब्राह्मणादिजातीनां कृते अपितु प्रकृतितुल्यजातीयो सजातीयो विजातीयो वा बोध्यः । अत्र प्रकृतिविषयकं निष्पक्षमध्ययनं विना ज्ञानोत्पतिरसम्भवात् ।
२- वैयक्तिकान्धसंस्कारः-शिक्षाक्षेत्रे अयं दोषो विचार्यते । यदि मानवानां शिक्षा सीमिता भवेत् भाषास्पि सीमिता स्यात् तर्हि इयं समस्या उत्पद्यते । यथा कूपमण्डुकस्य कूपविषयकज्ञानं भवति न समुद्रस्य तथैव स्थिरनिर्दिष्टक्षेत्रे अयं संकीर्णो गुहादोषो व्यक्तिगतान्धसंस्कार इत्युच्यते ।३-लोकायतान्धसंस्कारः- लोकेषु आयतं नाम विस्तृतम् । वस्तुतः भाषागतान्धसंस्कारोस्यं दोषः । कदाचित् भाषाव्यवहारे येषां शब्दानां व्यवहारो दृश्यते तेषां नास्ति कोस्पि विशेषोस्र्थः । किन्तु परंपरात एव व्यवह्रियते । ४- नाट्यशालागतान्धसंस्कारः- यथा कल्पनाप्रसूतं नाटकं भवति तथैव दार्शनिकानां आगम-धर्म-दर्शनेषु वर्णितं संप्रदायसिद्धान्त एव कल्पनाप्रसूतमिति बेकनयुक्तिर्बलीयसी । आगमनात्मकतर्केण हि वस्तुस्वरूपं निश्चीयते नान्यथा ।
आगमनात्मकविधिः (Inductiv Method) बेकनमहोदयस्य अयं सिद्धान्तः आरोहानुमानपद्धतिर्वा आगमनात्मकतर्कपद्धतिः नाम्ना परिचयं प्राप्तः । तन्नये यथार्थज्ञानं न इन्द्रियानुभवैर्जायते । इन्द्रियवैकल्यात् कदाचित् मिथ्याज्ञानं जायते । सुतरां निरीक्षणपूर्वकं वस्तूनां स्वरूपज्ञानं तु आरोहानुमानपद्धतेः मूललक्ष्यम् । वस्तुस्वरूपं विश्लेषणे यन्त्रादीनामपि प्रयोगः कर्त्तव्यः । साधर्म्य-वैधर्म्याभ्यां वस्तुविचारे हेतुस्वरूपो निर्णेतव्यः । अन्वय-व्यतिरेकाभ्यां हेत्वाभासं निराकृत्य व्याप्तिज्ञानमवश्यमेव कर्त्तव्यम् । बेकनमतेन सत्यस्याभिव्यक्तिः आगमनात्मकपद्धत्या एव सम्भवति । तर्कोस्पि व्याप्तिज्ञानोपरि निर्भरशीलः । बेकनमहोदयस्य अयं सिद्धान्तो न नूतनमिति केचित् वदन्ति । किन्तु पाश्चात्यदर्शनेषु तस्य योगदानं महत्त्वपूर्णमिति नैव सन्देहस्यावकाशः ।
--- लेखकः - नन्दप्रदीप्तकुमारः
श्रीजगन्नाथसंस्कृतविश्वविद्यालयः पुरी
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com