प्रार्थनागीतम्
(१)
(लय - तेरे पूजन को ऐ मोहन पुजारी बन के आया हूँ)
दयामय! देव! दीनेषु दयादृष्टिः सदा देया ।
प्रतिज्ञा दीनरक्षाया दयालो! जातु नो हेया ॥ दयामय
मनुष्या मानवा भूत्वा इदानीं दानवा जाताः ।
तदेषा मूढता देशात् द्रुतं दूरे त्वया नेया ॥ दयामय
त्वदुपदेशामृतं त्यक्त्वा विपन्नो हन्त लोकोऽयम् ।
तदुद्धाराय एतेषां प्रभो गीता पुनर्गेया ॥ दयामय
किमधिकं ब्रूमहे भगवन्! निवेदनमेतदेवैकम् ।
यदैते बालकाः स्वीयाः प्रभो! नो विस्मृतिं नेयाः ॥ दयामय
(२)
(लय - मा शारदे कहाँ तू वीणा बजा रही हो )
भगवन्! त्वदीय-भक्तिं न कदापि विस्मरेयम् ।
निज-देश-जाति-सेवाऽऽसक्तः सदा भवेयम् ॥ भगवन्
जायेत जातु नो मे पर-पीडनाऽभिलाषः ।
दीने सहायहीने सततं प्रभो द्रवेयम् ॥ भगवन्
मतिरस्तु सर्वदेशे रतिरस्तु नैजवेषे ।
गुरुपादयोर्निदेशे स्वमनः प्रवर्तयेयम् ॥ भगवन्
कुरुते सदा विनीतो विनयं कृपैकसिन्धो ।
गुरु-पूज्य-वन्द-सेवा-करणे वयो नयेयम् ॥ भगवन्
-- वासुदेव द्विवेदी शास्त्री
Encoded and proofread by Aditya Natu