दयां कृत्वा हि विद्यायाः
ॐ असतो मा सद्गमय ।
तमओ मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ।
ॐ शान्तिः शान्तिः शान्तिः ॥
दयां कृत्वा हि विद्यायाः
प्रभो दानं सदा देयम् ।
सदास्माकं हि चित्तेषु
दयस्व शुद्धता नेया ॥ १॥
प्रभो आयातु नः ध्याने
वसतु नेत्रेषु अस्माकम् ।
तमोयुक्तेषु हृदयेषु
परा आभा समाधेया ॥ २॥
प्रवाह्य प्रेमगङ्गां च
उदधिं स्नेहस्य हृदयेषु ।
मिथः सम्मिल्य वासस्य
प्रभो शिक्षा सदा देया ॥ ३॥
सदा नः कर्म स्यात् सेवा
सदा नः धर्मः स्यात् सेवा ।
सदा शीलं हि स्यात् सेवा
परा निष्ठा समादेया ॥ ४॥
भवेन्मे जीवनं भगवन्
तथा मरणं हि देशाय ।
तदर्थं जीवनत्यागः
प्रभो शिक्षा इयं देया ॥ ५॥
दयां कृत्वा हि विद्यायाः
प्रभो दानं सदा देयम् ।
सदास्माकं हि चित्तेषु
दयस्व शुद्धता नेया ॥
ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ।
हिन्दी - दया कर दान भक्ति का हमें परमात्मा देना