प्रणदति यमुनातटे मुरलिका
प्रणदति यमुनातटे मुरलिका ।
केदारे पुष्पिता मधुलिका ॥ १॥
गोप्यो वंशी नादं श्रुत्वा,
धावन्त्यस्ताः गेहं त्यक्त्वा
सह गच्छति राधा कोमलिका ॥ २॥
गोपीर्दृष्ट्वा लुप्तः कृष्णः
कुत्र हरिर्गोपीनां प्रश्नः ?
सर्वाभिर्ज्ञेया प्रहेलिका ॥ ३॥
सर्वाः गोप्यस्तदा व्याकुलाः
प्रथमं प्रकटति हरेर्मेखला,
लोकन्ते चन्द्रं सहेलिकाः ॥ ४॥
कृष्णश्चन्द्रो यदा द्योतते,
सर्वासां चित्तं प्रमोदते,
सरोवरे विकसन्ति कमलिकाः ॥ ५॥
तदा तटवने रासारम्भः,
श्रयते गोपीः कृष्णस्तम्भः,
प्राणः कृष्णस्ताः पुत्तलिकाः ॥ ६॥
प्रकृतिर्नृत्यति नृत्यति राधा,
कृष्णे सति मोक्षे का बाधा ?
वसेदियं मे दृशोर्झल्लिका ॥ ७॥
मधुरखं कुर्वन्ति मयूराः,
वृक्षाः खगाः मृगाः हरिपूराः,
पुष्पे विकसति कलिका कलिका ॥ ८॥
रासे सा सरसा रसवर्षा,
तया हृत्सु जायन्ते हर्षाः
चित्रयन्ति रासं सुतूलिकाः ॥ ९॥
रस-वर्षा स्नानं हि योगिनाम्,
कृष्ण-प्रेम-धनं गोपीनां
चमत्करोति न रासक्षणिका ॥ १०॥
-- प्रेम शङ्कर शर्मा
Encoded and proofread by Mohan Chettoor