प्रभो तं भारतं रक्ष
(गीतिका)
प्रभो । दुखाब्धि-सन्त्रात ।
सदेम भारतं रक्ष ।
क्षुधा-शोकाग्नि-सन्तप्त,
सदेम भारतं रक्ष ॥ प्रभो०॥
सदा विश्वस्य यज्ज्योति
सदा यः प्रेरणा-स्रोतः ।
भुवो मार्गोपदेष्टा यः,
सदा तं भारतं रक्ष ॥ प्रभो०॥
श्रुतीनां यत्र सन्नाद
यतीनां ज्ञान-संवाद ।
मुनीना दर्शनोत्कर्षं
सदा तं भारतं रक्ष ॥ प्रभो०॥
भवे बन्धुत्वं शिक्षाया,
सदैवाग्रेसरो योऽभूत् ।
सदाऽध्यात्मोपदेष्टा यो
मुदा तं भारतं रक्ष ॥ प्रभो०॥
धरेयं त्रास-सन्त्रस्ता
क्षुधा-रोगाऽऽधि-सन्ध्वस्ता ।
अशिक्षा ध्वान्त-सङ्ग्रस्ता,
सुधा-वर्षे सदा रक्ष ॥ प्रभो०॥
सदा यः क्रान्ति-दूतानां
निनादैः पूर्यमाणोऽभूत् ।
सदा क्रान्तेर्निनादेन
सुदेशं भारतं रक्ष ॥ प्रभो०॥
न शाम्येत् क्रान्ति-सन्देश
न रुन्ध्याद् राष्ट्र-सन्देश ।
न नश्येत् चेतनोत्साह,
तथैत भारतं रक्ष ॥ प्रभो०॥
धरेयं पाविता पूतैः,
स्व-रक्तैः क्रान्तिदूतैस्तैः ।
यशोमाला सदा विन्देत्,
तथैत भारतं रक्ष ॥ प्रभो०॥
ज्वलेद् विज्ञान-सञ्ज्योति
प्रणश्येदाधि-दुःखाग्निः ।
चरेत् क्रान्तेश्च दावाग्निः,
तथैत भारतं रक्ष ॥ प्रभो०॥
ऋषीणां, ज्योतिषां पूत ।
हुतात्म-त्याग-सम्पुष्टम् ।
सुधीनां कीर्तिं-सृजुष्ट
वरेण्य भारतं रक्ष ॥ प्रभो ॥
Proofread by Mandar Mali