प्रतिज्ञापत्रम्
भारतं मम देशः ।
सर्वे भारतीयाः मम भ्रातरः भगिन्यः च सन्ति ।
मम मानसे देशस्पृहा अस्ति ।
समृद्धिसहितं विविधतापरिपूर्णं तस्य संस्कृतिगौरवं अनुभवामि ।
अहं सदा तत्पात्रं भवितुं यत्नं करिष्यामि ।
अहं मम पितरौ आचार्यान् गुरुजनान् च प्रति आदरभावं धारयिष्यामि ।
प्रत्येकेन सह शिष्टव्यवहारं च करिष्यामि ।
अहं मम देशाय देशबान्धवेभ्यः च मम निष्ठां अर्पयामि ।
तेषां च कल्याणे समृद्धौ च एव मम सुखं अस्ति ।
Encoded and proofread by BS