प्रेमावहति मे श्रावणानाम्
प्रेमावहति मे श्रावणानां
धारासारवृष्टेः प्लावनशतम् ।
यौवनवासनायाः रिक्तकूलं
पूर्णयति तून्मत्ततोयम् ॥
निर्जनस्तब्धतमोऽभिभूय
उच्छलामानयति जीवनधाराम् ।
अपूर्ववर्षायास्तरंगराशिः
नृत्यति सृष्टेर्रागेण ॥
विद्युत्क्षिप्रे तव नयने
मौनवचोभिर्मादयतः ।
निश्वासो मे प्राप्याश्वासं
तृप्तेः परिधिं न मन्यते ॥
प्रीतिदिग्वलये (च) गानं प्रगतेर्-
निर्जितवज्रगर्जघोषम् ।
तृष्णया वृष्टेः मृगिते कालवाते
दृष्टिर्मदीयानुधावति लक्ष्यम् ॥
मूलरचना- डाॅ भूपेन हाजरिका
संस्कृतरूपान्तरः- रञ्जन बेजवरुवा, असम
Translated from original snehai AmAr (Assamese) of Bhupen Hazarika
in to Sanskrit by Ranjan Bejbaruah ranjanbezbaruah at gmail.com, Assam