प्रियं भारतम्
प्रकृत्या सुरम्यं विशालं प्रकामं
सरित्तारहारैः ललामं निकामम् ।
हिमाद्रिर्ललाटे पदे चैव सिन्धुः
प्रियं भारतं सर्वथा दर्शनीयम् ॥ १॥
धनानां निधानं धरायां प्रधानं
इदं भारतं देवलोकेन तुल्यम् ।
यशो यस्य शुभ्रं विदेशेषु गीतं
प्रियं भारतं तत्सदा पूजनीयम् ॥ २॥
अनेका प्रदेशाः अनेकाश्च वेशाः
अनेकानि रूपाणि भाषा अनेकाः ।
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत्सदा रक्षणीयम् ॥ ३॥
सुधीरा जना यत्र युद्धेषु वीराः
शरीरार्पणेनापि रक्षन्ति देशम् ।
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः
प्रियं भारतं तत्सदा श्लाघनीयम् ॥ ४॥
वयं भारतीयाः स्वभूमिं नमामः
परं धर्ममेकं सदा मानयामः ।
यदर्थं धनं जीवनं चार्पयामः
प्रियं भारतं तत्सदा वन्दनीयम् ॥ ५॥
कविवर्य- डाॅ. चन्द्रभानु त्रिपाठी
Sung and popularized by Gabriella Brunnel