पुरः पुरः प्रयाहि
पुरः पुरः प्रयाहि रे (प्रगच्छ रे)
प्रगाय मातृवन्दनम् ।
स्वजन्मभूमिरक्षणे
प्रदेहि वीर जीवनम् ॥ ध्रुवम्॥
प्रयाहि देशगौरव
स्वराष्ट्रकेतुमुद्धरन्
पदं पदं प्रगच्छ रे
विजेतृभावमुद्वहन् ॥ १॥
शिरोऽस्तु ते समुन्नतं
तवास्तु मा क्वचिद् भयम् ।
प्रभुस्तवास्ति पार्श्वतः
सुशस्त्रसज्जितः स्वयम् ॥ २॥
पुरः पुरः प्रधाव रे
बलं तवाद्य वर्धताम् ।
यतः प्रभुस्ततो जयः
ततः सुवीर युध्यताम् ॥ ३॥
रणे धृतिः सुकौशलं
प्रवर्धतां मनोबलम् ।
जयस्तवास्ति निश्चितः
कुरु स्वधर्मपालनम् ॥ ४॥
- नरेन्द्रः
Encoded and proofread by Shubha shubhazero at gmail.com