पुरुषोत्तमप्रोक्तं पापापद्व्यपोहनस्तोत्रम्

पुरुषोत्तमप्रोक्तं पापापद्व्यपोहनस्तोत्रम्

श्रीनारायणीश्रीरुवाच । आपद्गतस्य भक्तस्य भक्तायास्तव केशव । आपन्नाशः कथं स्याच्च पापनाशः कथं भवेत् ॥ १॥ श्रीपुरुषोत्तम उवाच । अव्रतस्याऽप्यशक्तस्य ज्ञानहीनस्य देहिनः । आपत्पापादिनाशार्थं स्तोत्रं व्यापहनं मतम् ॥ २॥ एकाग्रमानसो भूत्वा स्तुवीत परमेश्वरम् । अवताराँस्तथा मुक्तानीश्वरान् पितृदेवताः ॥ ३॥ ऋषीन् गुरून् भागवतान् साधून् भक्तान् स्तुवीत च । अनन्यशरणो भूत्वा प्रार्थयेत् सुखवान् भवेत् ॥ ४॥ सर्वसिद्धिप्रदं स्तोत्रं दिव्यं वदामि ते रमे । श्रोतुर्वक्तुर्वाचयितुः सर्वेष्टानां द्रुतं प्रदम् ॥ ५॥ ``नमोऽनादिकृष्णनारायणाय परमात्मने । महाभगवते मुक्ताऽक्षरेशाय परात्मने ॥ ६॥ सृष्टित्रयाधिनाथाय सर्वान्तर्यामिणे नमः । परब्रह्मणे पुरुषोत्तमाय चावतारिणे ॥ ७॥ सर्ववित् सर्ववासः श्रीनिवासः सर्वसंस्थितः । पराऽक्षरस्थो मुक्तेशश्चापत्पापं व्यपोहतु ॥ ८॥ अवतारी परब्रह्म दिव्यात्मा श्रीनरायणः । परमेशो हि भगवानापत्पापं व्यपोहतु ॥ ९॥ अनाद्यनन्तः सर्वेशः सर्वविद्याधरो हरिः । सर्वप्रदः सुखदश्च पापापदो व्यपोहतु ॥ १०॥ अणोरणीयान्महतो महीयान् विश्वपूजितः । अनादिश्रीकृष्णनारायणः पापं व्यपोहतु ॥ ११॥ ब्रह्मप्रियाप्रियः कान्तः शान्तः स्नेहभरः प्रभुः । हरिप्रियामनोहारी पायाऽऽपदो व्यपोहतु ॥ १२॥ मुक्तमण्डलसंसेव्यो मुक्तानिकाप्रसेवितः । कमनीयः परः कान्तः पापापदो व्यपोहतु ॥ १३॥ अवतारी परिपूर्णः परब्रह्म परात्परः । परावरेशः परमः पापापदो व्यपोहतु ॥ १४॥ श्रीपतिः श्रीधरः श्रीहृत् श्रीमान् श्रीदः श्रियाऽन्वितः । श्रीपादः श्रीहरिः कृष्णः पापापदो व्यपोहतु ॥ १५॥ लक्ष्मीपतिर्लक्ष्मीधरो लक्ष्मीहृत् लक्ष्मदाऽन्वितः । लक्ष्मीसेवाऽतिसन्तुष्टः पापापदो व्यपोहतु ॥ १६॥ राधापतिश्च राधाधृग् राधाहृद्राधिकाऽन्वितः । राधात्मा राधिकाकृष्णः पापापदो व्यपोहतु ॥ १७॥ माणिकीवाहनो माणिकीश्वरो माणिकीप्रभुः । माणिक्याऽभिनवहारः पापापदो व्यपोहतु ॥ १८॥ गोलोकेशो गोपिकेशो गोपीगोपप्रपूजितः । गोपालकृष्णो गोधृङ् मे पापापदो व्यपोहतु ॥ १९॥ नृवरो नृपतिर्नाथो नारायणो नरोत्तमः । वैकुण्ठवासी भगवान् पापापदो व्यपोहतु ॥ २०॥ वसुदो वासुदेवश्च धर्मार्थकाममोक्षदः । अमृतादोऽमृतदो ये पापापदो व्यपोहतु ॥ २१॥ भूमिदो भूस्थितो भूमा भूमतां भाग्यवर्धनः । भूसत्ताऽव्याकृतस्वामी पापापदो व्यपोहतु ॥ २२॥ वेदाऽवनो धराधृक्च मन्द्रधृक् ज्ञानधृग्हरिः । गोधृग्गोदोहनो हंसः पापापदो व्यपोहतु ॥ २३॥ तापसो वत्सलः साधुर्भिक्षुः क्रूरोऽध्वरो वनी । बालो भिषग्वरः क्लेशी पापापदो व्यपोहतु ॥ २४॥ संराट् शास्त्री कृष्णकान्तः प्राज्ञोऽवतारकारणम् । आवेशोंऽशः कला भूतिः पापापदो व्यपोहतु ॥ २५॥ पूर्णः परो व्यूह ऐशोऽन्तर्याम्यर्चास्वरूपकृत् । विभवश्चैत्यः सुन्यासी पापापदो व्यपोहतु ॥ २६॥ सर्वधामनिवासो योऽनेकरूपः परेश्वरः । जडचेतनशास्ता मे पापापदो व्यपोहतु ॥ २७॥ नारायणी श्रीपुरेशी माधवी पुरुषोत्तमी । कार्णी श्रीललितालक्ष्मीः पापापदो व्यपोहतु ॥ २८॥ भार्गवी दुःखहालक्ष्मीः शिवराज्ञी च वैष्णवी । पद्मिनिका पद्मजा मे पापापदो व्यपोहतु ॥ २९॥ कम्भराश्रीर्महालक्ष्मीर्वासुदेवी परेश्वरी । आक्षरी श्रीर्भगवती पापापदो व्यपोहतु ॥ ३०॥ पौरुषी प्राकृती देवी मायेशी पार्वती प्रभा । पारब्राह्मी रमा माता पापापदो व्यपोहतु ॥ ३१॥ भूम्नी पद्मा च वैराजी गङ्गा रेवा सरस्वती । गायत्री गोमती गोपी पापापदो व्यपोहतु ॥ ३५॥ सादाशैवी च माहेशी ब्राह्मी ब्रह्मप्रिया सती । साध्वी च स्वामिनी चान्द्री पापापदो व्यपोहतु ॥ ३३॥ हिरण्मयी कानकी च हरिणी स्वर्णरूपिणी । वैकुण्ठा तूलसी वृन्दा पापापदो व्यपोहतु ॥ ३४॥ सिद्धा पैत्री सिद्धिरूपा चमत्कृतिः सुधैनवी । सुधाऽमृता पाशवती पापापदो व्यपोहतु ॥ ३५॥ प्रभा सौरी पार्षदानी चेश्वरी देवता रतिः । प्रीतिर्भक्तिर्व्रतरूपा पापापदो व्यपोहतु ॥ ३६॥ सौम्या पुरातनी दिव्या सन्तुष्टा तृप्तिरब्जिका । कमलाऽम्बा शारदा मे पापापदो व्यपोहतु ॥ ३७॥ ऐन्द्री चानन्दमात्रा च चिच्छक्तिर्ज्ञानरूपिणी । योगिनी नैष्ठिकी हृत्स्था पापापदो व्यपोहतु ॥ ३८॥ मोहिनी नन्दिनी पद्मेक्षणोर्वशी पतिव्रता । जननी स्वर्णवर्णा मे पापापदो व्यपोहतु ॥ ३९॥ पुण्या च पावनी विद्या धनदा वित्तधारिणी । आर्त्तिहाऽब्धिसुता शान्ता पापापदो व्यपोहतु ॥ ४०॥ भावज्ञा भुक्तिमुक्त्यादिप्रदा भक्ताऽभयङ्करी । सर्वार्धाङ्गा जीवनी श्रीः पापापदो व्यपोहतु ॥ ४१॥ सौभाग्ययुक्ता शोभाढ्या सर्वाभरणभूषिता । सर्वश‍ृङ्गारदीप्ताङ्गा पापापदो व्यपोहतु ॥ ४२॥ सस्यलक्ष्मीः रत्नलक्ष्मीः सम्पल्लक्ष्मीः कुटुम्बिनी । धान्याऽन्नधारिणी गौरी पापापदो व्यपोहतु ॥ ४३॥ रोहिणी पोषणकर्त्री कन्यका नवयौवना । रामयित्री सुरामा मे पापापदो व्यपोहतु ॥ ४४॥ सत्त्वमयी सत्त्वदात्री सत्त्वध्रा सत्त्वयोगिनी । सात्त्विकी सच्चिदानन्दा पापापदो व्यपोहतु ॥ ४५॥ मुक्ताश्च पार्षदा भक्ता भक्तान्यः साध्य ईश्वराः । ईश्वराण्यो महामुक्ता व्यपोहन्त्वघमापदः ॥ ४६॥ शङ्खश्चक्रं गदा पद्मं कौस्तुभो मुकुटो हरेः । वनमाला पुष्पमाला व्यपोहन्त्वघमापदः ॥ ४७॥ यष्टिश्छत्रं चामरं चाङ्गदश्च कटकस्तथा । श‍ृङ्खला रशना कार्ष्णी व्यपोहन्त्वघमापदः ॥ ४८॥ गुणैश्वर्याणि सर्वाणि चमत्काराश्च सिद्धयः । शक्तयः श्रीहरेः सर्वा व्यपोहन्त्वघमापदः ॥ ४९॥ शालग्रामस्तथा शालङ्कायनर्षिश्च गण्डकी । त्रिवेणी शालवृक्षश्च व्यपोहन्त्वघमापदः ॥ ५०॥ बदरी बदरीवासाः ऋषयश्च नरो हरिः । गङ्गा हिमाश्रयो हैमा व्यपोहन्त्वघमापदः ॥ ५१॥ शेषशायी क्षीरनिधिः क्षीरजा श्वेतभोगिराट् । निरन्नमुक्तभक्ताश्च व्यपोहन्त्वघमापदः ॥ ५२॥ ब्रह्मा विष्णुः शङ्करश्च गणेशश्च प्रभाकरः । गणा रुद्राश्च रुद्राण्यो व्यपोहन्त्वघमापदः ॥ ५३॥ सिद्धा यक्षाश्च गन्धर्वाश्चन्द्रस्ताराश्च तैजसाः । ग्रहाश्च केतवश्चापि व्यपोहन्त्वघमापदः ॥ ५४॥ हंसो गरुडो वृषभः सिंहश्च हरिणो गजः । शेषः शिखी टिव्यवाहा व्यपोहन्त्वघमापदः ॥ ५५॥ कार्तिकेयो महाकालो महावज्रं त्रिशूलकम् । कालदण्डो हेतयस्ते व्यपोहन्त्वघमापदः ॥ ५६॥ आदित्या वसवो रुद्रा अश्विनावीश्वरेश्वराः । दिक्पाला लोकपालाश्च व्यपोहन्त्वघमापदः ॥ ५७॥ गगनं स्पर्शनं तेजो रसश्च पृथिवी तथा । तन्मात्राणि तथा प्राणा व्यपोहन्त्वघमापदः ॥ ५८॥ साध्या विश्वे मरुतश्च किन्नरा गुह्यकास्तथा । गन्धर्वा किम्पुरुषका व्यपोहन्त्वघमापदः ॥ ५९॥ देवानां मातरश्चापि गणानां मातरस्तथा । भूतानां मातरः सर्वा व्यपोहन्त्वघमापदः ॥ ६०॥ अप्सरसस्तथा देव्यो राशयस्तिथयस्तथा । पक्षा मासा वत्सराश्च व्यपोहन्त्वघमापदः ॥ ६१॥ ज्वरा रोगाश्च ऋतवः ऋणानि राक्षसास्तथा । दैत्याश्च दानवा दुष्टा व्यपोहन्त्वघमापदः ॥ ६२॥ सागराः सरितः कूपास्तडागानि च दीर्घिकाः । वाप्यः सरांसि वरुणो व्यपोहन्त्वघमापदः ॥ ६३॥ गावो याः कामवर्षिण्यः कल्पपूराश्च वल्लिकाः । तथा च कल्पतरवो व्यपोहन्त्वघमापदः ॥ ६४॥ यज्ञा यज्ञक्रियाश्चापि विधयः श्रुतयोऽपि च । ऋचः सामानि छन्दांसि व्यपोहन्त्वघमापदः ॥ ६५९॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रबाहुः सर्वज्ञो व्यपोहन्त्वघमापदः ॥ ६६॥ पावकः पावनो वह्निः सप्तार्चिः सप्तजिह्विकः । स्वर्णपिता ब्रह्ममुखं पापापदो व्यपोहतु ॥ ६७॥ दानं दमो दया दैवं देवा देव्यश्च साधवः । सन्तः सत्पुरुषाः पुण्या व्यपोहन्त्वघमापदः ॥ ६८॥ वृद्धा वन्द्या भागवता भक्ताश्चैकान्तिनो हरेः । दैवज्ञा देवपुरुषा व्यपोहन्त्वघमापदः ॥ ६९॥ व्रतानि पुण्यकर्माणि सुकृतानि प्रसेवनम् । सेवा श्रद्धा भावना च व्यपोहन्त्वघमापदः ॥ ७०॥ योगा ज्ञानानि सर्वाणि सत्यं वैराग्यमीशिता । उपासना हरेराज्ञा व्यपोहन्त्वघमापदः ॥ ७१॥ गृहदेवा ग्रामदेवाः क्षेत्रदेवाश्च सीमगाः । द्वारदेवा बहिर्देवा व्यपोहन्त्वघमापदः ॥ ७२॥ वास्तुदेवाः श्राद्धदेवा मखदेवा महोत्सवाः । तीर्थानि देववासाश्च व्यपोहन्त्वघमापदः ॥ ७३॥ देवालया मन्दिराणि मठाः कथास्थलानि च । मुक्तिक्षेत्राणि सर्वाणि व्यपोहन्त्वघमापदः ॥ ७४॥ मातरः पितरः श्रेष्ठा बान्धवाश्च सतीश्रियः । भक्ता बाला बालिकाश्च व्यपोहन्त्वघमापदः ॥ ७५॥ प्रायश्चित्तानि सर्वाणि दर्भाश्च देवहेतयः । हव्यकव्यानि दैवानि व्यपोहन्त्वघमापदः ॥ ७६॥ देवरथा देवयाना देवमार्गाश्च देवताः । आतिवाहिकदेवाश्च व्यपोहन्त्वघमापदः ॥ ७७॥ विद्युतश्च घना मेघा भूकम्पा ईतयस्तथा । बलिहाराश्च ये देवा व्यपोहन्त्वघमापदः ॥ ७८॥ निधयश्च दिशाश्चापि मनवश्च कलास्तथा । चतुर्दशभवनानि व्यपोहन्त्वघमापदः ॥ ७९॥ व्याहृतयः प्राणयमा याम्याश्च धर्मवंशजाः । धर्मदेवश्च तत्पत्न्यो व्यपोहन्त्वघमापदः ॥ ८०॥ कुण्डमण्डपदेवाश्च ध्वजशाखानिवासिनः । समित्पात्रादिदेवाश्च व्यपोहन्त्वघमापदः ॥ ८१॥ सद्गुरोश्चरणौ लक्ष्मि चरणामृतवारि च । गुरुभुक्तप्रसादश्च व्यपोहन्त्वघमापदः ॥ ८२॥ सतीपतिपादवारि साधुचरणवारि च । विष्णुपादोदकं पुण्यं व्यपोहन्त्वघमापदः ॥ ८३॥ सतां समागमः सेवाऽऽश्रयश्चाऽऽज्ञावचांसि च । प्रसन्नताऽऽशीर्वादाश्च व्यपोहन्त्वघमापदः ॥ ८४॥ मातृतीर्थं पितृतीर्थं गुरुतीर्थं तथोत्तमम् । पतितीर्थं सतीतीर्थं व्यपोहन्त्वघमापदः ॥ ८५॥ गोतीर्थं चाऽवभृथतीर्थं पङ्क्तितीर्थं च दक्षिणम् । सन्यासतीर्थं मन्त्रश्च व्यपोहन्त्वघमापदः ॥ ८६॥ यज्ञोपवीतकं कण्ठी तौलसेयी समर्पणम् । आत्मनिवेदिताख्यं च व्यपोहन्त्वघमापदः ॥ ८७॥ योगित्वं साधुता नैष्ठिकता श्रोत्रियता तथा । ब्रह्मसत्ता भक्तता च पावयन्तु हि मां सदा ॥ ८८॥ पावनी कुङ्कुमवापी पावनः श्रीनरायणः । पावनीश्रीः पावयन्तु मां सदा शरणागतम् ॥ ८९॥ धर्मो विष्णुः श्रीश्च भक्तिः सेवा मां पावयन्त्विह । एषः समर्पितश्चाऽस्मि तं मां भक्तं पुनन्त्विह ॥ ९०॥ एवं स्तुवन् नमेद्भूमौ लक्ष्मि पावनवृत्तिमान् । आपदस्तस्य नश्यन्ति निवर्तन्ते ह्यघानि च ॥ ९१॥ व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि । पत्रं पुष्पाद्यर्पयेश्च शुद्धो भवति तत्क्षणात् ॥ ९२॥ कन्यार्थी लभते कन्यां जयकामो जयं लभेत् । अर्थकामो लभेदर्थं पुत्रकामः सुतान् लभेत् ॥ ९३॥ विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् । सम्पदर्थी सम्पदश्च राज्यार्थी राज्यमाप्नुयात् ॥ ९४॥ स्वर्गार्थी स्वर्गमादद्यान्मोक्षार्थी मोक्षमाप्नुयात् । दुःखनाशाभिलाषी च दुःखनाशमवाप्नुयात् ॥ ९५॥ पत्यर्थिनी पतिं रम्यं धनार्थिनी धनं लभेत् । सुखार्थिनी सुखं चापि सौभाग्यं लभते तथा ॥ ९६॥ यशोऽर्थिनी यशश्चापि प्राधान्यं लभते तथा । यान् यानर्थयते कामान् सर्वानवाप्नुयात् स्तवी ॥ ९७॥ पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते । तस्य रोगा न बाधन्ते वातपित्तादिसम्भवाः ॥ ९८॥ नाऽपमृत्युर्भवेत्तस्य न दंष्ट्राविषसङ्गमः । नाऽकालदुःखवाँश्चापि भवेद्व्यपोहनस्तवी ॥ ९९॥ सर्वतीर्थप्रपुण्यानि यज्ञपुण्यानि यानि च । दानव्रतानां पुण्यानि लभेद्व्यपोहनस्तवी ॥ १००॥ गोघ्नः कृतघ्नो वीरहा ब्रह्महा बालहा तथा । शरणागतहा मित्रविश्वासघातकोऽपि च ॥ १०१॥ मातृहा पितृहा नारीहा तथा पशुघातकः । व्यपोह्य सर्वपापानि शुद्धो भवति संस्तवी ॥ १०२॥ भक्तिं कृत्वा सर्वपुण्यो याति मोक्षप्रदं ततः । अगतिकस्य गतिदं स्तोत्रं व्यपोहनं त्विदम् ॥ १०३॥ लक्ष्मि स्तुत्वाऽनेन मां तु नमेत् प्रप्रार्थयेत्ततः । ध्यात्वा ब्रह्ममयो भूत्वा मुच्यते बन्धनादितः ॥ १०४॥ एतदुच्चार्य भावेन स्तोतव्यं नावशिष्यते । तस्मादापत्प्रदे काले व्यपोहनं समुच्चरेत् ॥ १०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे १६७-अध्यायान्तर्गतं पुरुषोत्तमप्रोक्तं पापापद्व्यपोहनस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १६७/१-१०५॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 167/1-105.. Proofread by PSA Easwaran
% Text title            : Purushottamaproktam Papapadvyapohana Stotram
% File name             : puruShottamaproktaMpApApadvyapohanastotram.itx
% itxtitle              : pApApadvyapohanastotram (puruShottamaproktaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : puruShottamaproktaM pApApadvyapohanastotram
% Category              : misc, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 167/1-105||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : April 12, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org