राष्ट्रभारती भवतु संस्कृतम्
राष्ट्रभारती भवतु संस्कृतं
लोकभारती भवतु संस्कृतम् ॥ ध्रुवम् ॥
राष्ट्रभारती भवतु संस्कृतं
सर्वासां वाचां जनयित्री
भारतीयभावनासवित्री
लोकमङ्गलं दिशतु संस्कृतं
राष्ट्रभारती भवतु संस्कृतम् ॥ १॥
वेदपुराणोपनिषल्लीनं
कालिदासकवितारसपीनं
निखिलभारतं पठतु संस्कृतं
राष्ट्रभारती भवतु संस्कृतम् ॥ २॥
राष्ट्रिय पशुः केसरी घुष्टः
गृहे गृहे तत् किमसो दृष्टः
महिमानं घोषयतु संस्कृतं
राष्ट्रभारती भवतु संस्कृतम् ॥ ३॥
संस्कृतमखिलभारतीमूलं
अपनेष्यति नूनं हृच्छ्रलं
हृन्दि हृदा बध्नातु संस्कृतं
राष्ट्रभारती भवतु संस्कृतम् ॥ ४॥
भवतु संस्कृतं राष्ट्रियभाषा
नूनमुदेष्यति सहगमनाशा
नवराष्ट्रं विदधातु संस्कृतं
राष्ट्रभारती भवतु संस्कृतम् ॥ ५॥
रचना - मिश्रोऽभिराजराजेन्द्रः
(हृन्दि - हृदयानि । हृदा - हृदयेन ।)
अभिराजराजेन्द्रमहोदयेन तथ्यमेव प्रकाशितं अस्यां सुन्दरकवितायाम् ।
``हिन्दीभाषा हिन्दीभाषिप्रदेशस्य अर्थे एव साधुः, न तु
समग्रभारतस्य अर्थे । संस्कृतमेव भारतीयानां अर्थे श्रेयस्करम् ।''
भारतस्य ऐक्यसंरक्षणे भाषासमस्यायाः समाधाने च
संस्कृतमेव अनन्यसाधनम् । कविवरेण श्रीमातुः संस्कृत विषयकाः
अभिप्रायाः अत्र सुष्ठु अभिव्यञ्जिताः । अभिनन्दामः तं वयम् ।
- सम्पादकः लोकसंस्कृतम्, १९९१ ॥
Encoded and proodread by Swaroop Bhagwat