राष्ट्रप्रहरी
(गीतिका) (भुजङ्गप्रयातवृतम्)
अये राष्ट्रयोधाः ! अये वीरवर्याः !
अये छात्र-सङ्घर्ष-सेनाऽधिनाथाः ।
सदा सावधानाः सदा दत्तचित्ताः
स्वदेशस्य रक्षा-कृतौ जागरूकाः ॥ अये०॥
इमे स्वार्थलीना नराः वित्तलुब्धाः,
निजा स्वार्थसिद्धिं वरं मन्यमानाः ।
जनानां सदा शोषणे लीनचित्ताः,
नराः पामरास्ते सदा ताडनीयाः ॥ अये०॥
धनं देशहेतोर्न स्वार्थस्य सिद्ध्यै
तनुर्देशहेतोर्न भोगोपभुक्त्यै ।
कृतिर्देशहेतोर्न त्रासस्य बुद्ध्यै
मनो देश चिन्ता निमग्नं न स्वैरम् ॥ अये०॥
इमे पापलीनाश्चरित्रेण हीना
सदोत्कोचजीवाः मुधाऽऽहिण्डमानाः ।
धनैर्वा जनैर्वा स्व-स्वार्थावसक्ताः
कुधा ताडनीयाः बहिष्कार-योग्याः ॥ भये०॥
युवा नेतृवर्गोऽथवा मन्त्रिवर्यो
यदा स्वार्थमग्नश्चरित्रेण हीनः ।
स्वदेशस्य द्रोही नरो दैत्यरूपः
स दण्ड्यः स वध्यः स न्यक्कारपात्रम् ॥ अये०॥
न यत्रास्ति देशे विधानं सुषुष्टं
न वा न्याय-दण्ड-व्यवस्था सुपुष्टा ।
न चैवाऽनुशिष्टिः समाजे प्रदेशे
न देशो विकासोन्नतिं कर्तुमर्हः ॥ अये०॥
सदा देशभक्तैः सदा जागरुकैः,
स्वकर्म प्रवृत्तैः स्वधर्मैक-निष्ठैः ।
सदा सत्यनिष्ठे स्वदेहार्पणेस्तु,
स्वदेशोन्नतिः शक्यते कर्तुमिष्टाः ॥ अये०॥
नरा जातिवादेऽथवा धर्मवादे,
श्रिता सम्यवादेऽथवा भूतिवादे ।
कुटुम्बाश्रयाः हीनवृत्तापचाराः,
इमे देश द्रुग्धाः सदा दण्डनीयाः ॥ अये०॥
इमे हीनवृत्ताः सदा कर्मचौराः,
स्व-जात्यादिवादैर्विवादैक निष्ठाः ।
घनस्यैव गृध्राः कुकृत्याऽऽप्तवित्ताः,
सदा शासनेन क्रुधा नाशनीयाः ॥ अये०॥
अये कर्मवीराः ! स्वकर्मैक-निष्ठाः
सदा राष्ट्र-रक्षापराः जागरूकाः ।
भयं देशजं पारदेश्यं कुतो वा
समग्रं समाप्य स्वदेहार्पणेन ॥ मये ॥
Proofread by Mandar Mali