राष्ट्रसेवनकार्यमेतत्
राष्ट्रसेवनकार्यमेतद्देवपूजनकार्यमेव ।
संस्कृताय हि कार्यकरणं नित्यजीवनभागभूतम् ॥ ध्रुवम्॥
शास्त्ररक्षणशिक्षणार्थं वेदवाङ्मयबोधनार्थं
दिव्यसंस्कृतिपोषणार्थं भव्यभारतवैभवार्थं
संस्कृतस्य तु सेवकोऽहं जीवनार्पणदीक्षितोऽहम् ॥ १॥
लोकसङ्ग्रहपुण्यकार्यं साधयेयं कठिनतपसा
सर्वजातिषु सामरस्यं कारयेयं स्नेहवचसा
सकलशक्तिं संस्कृतार्थं योजयेयं पूर्णमनसा ॥ २॥
लोकचेतसि धर्मरागं स्वाभिमानं देशवासिषु
आनयेयं सङ्घभावं प्रेमभावं कार्यकर्तृषु
वर्धयेयं सहजस्नेहं कार्यपद्धतिमाश्रयेयम् ॥ ३॥
विश्वमखिलं प्रेरयेयं त्यागसंयुतजीवनाय
प्रतिपदं ननुं चिन्तयेयं संस्कृतोन्नतिसाधनाय
क्षणलवं खलु यापयेयं जगति धर्मस्थापनाय ॥ ४॥