राष्ट्रिय जागरणम्
(गीतिका) (भुजङ्गप्रयातम्)
अये भारतीयाः ! यतध्वं यतध्वं
सुखं शान्तिमिष्टा लभध्वं लभध्वम् ।
सुखं दुःखजातं सहध्वं सहध्वं
विकासं प्रमोदं भजध्वं भजध्वम् ॥ १
इयं क्रान्तिरिष्टा समे भारतेऽपि
प्रचारं प्रसारं भजेल्लोकहेतो ।
युवा बालको बालिका वृद्धवर्यो
ददत्वात्मयोगं सदा देशहेतोः ॥ २
सदा संविधानस्य रक्षापराः स्युः
स्वदेशाभिमानं जने जागृयाच्च ।
जने वर्धतामादरो राष्ट्रकेतौ
नरो मोदमाला वहेद् राष्ट्रगीतौ ॥ ३
सदा देशरक्षा, सदाऽऽदर्श-रक्षा
सदैवोच्च-भावाश्रया वृत्तिरिष्टा ।
विकासः प्रकाशो भवेद् ग्राम-मध्ये
ज्वलेज्ज्ञान ज्योतिः समेषा मनःसु ॥ ४
भवेद् देशकार्ये सदा चित्त-योगं
स्वदेशोन्नतौ स्यात् सदेवानुरागः ।
विकासस्य कार्य मनोयोजनं स्याद्
दरिद्रातुराणां हितं प्रेप्सितं स्यात् ॥ ५
प्रभुत्वं स्वदेशस्य लक्ष्यं सदा स्याद्
भवेदेकता राष्ट्रवृद्ध्ये जनेषु ।
अजस्रं वहेत् स्वाभिमानस्य धारा
सदा प्रेरिता स्युर्जनाः देशभक्त्या ॥ ६
जने जागृयाद् भ्रातृभावो भवाय
समत्वस्य भावोदयं स्यात् सुखाय ।
न धर्मो न भाषा न देशं प्रदेशो
भवेद् भेदकारी, न च क्षोभकारी ॥ ७
यथैवादृता स्युर्नराः लोकमध्ये
तथा योषितामादरं स्यादजस्रम् ।
न याने, न पाने, विवाहेऽन्यदा च
स्त्रिया आदरे न्यूनता लक्षिता स्यात् ॥ ८
यथा संस्कृतिर्भारतीयाः प्रथेत
यथा गौरवं भारतीयं तनोतु ।
विहाय स्वकं क्षुद्रभावः श्रमेण
महत्त्वं प्रसार्यं भुव संस्कृतेश्च ॥ ९
न दैन्यस्य भावोदय स्याज्जनेषु
क्षुधा-हीन-भावावलिश्च प्रसर्पेत् ।
विलापं क्वचिन्न श्रुतं स्याज्जनानां
निवासाश्रयो वृत्ति-लाभार्थमेव ॥ १०
विपत्तिः स्वदेशे यदैवाऽऽपतेत्तु
यदाऽऽह्वानलेशोऽपि रक्षार्थम्मायात् ।
तदा सङ्गतैः सर्वमेवावमत्य
नरैर्भारतीयैः सदा भाव्यमेव ॥ ११
दया-भाव-वृद्धिजने जीव-जाते
गवादेर्विवृद्धि पशूनां सुरक्षा ।
नदीनां ह्रदानां वनानां नगानां
सुरक्षा कृताः स्यात् पथामापणानाम् ॥ १२
विकासं व्रजेद् भावना देशभक्ते
नराणां हितायेहितं स्यादजस्रम् ।
सुधारे रुचिर्ज्ञानवृद्धौ प्रवृत्तिः
भवेद् दृष्टिकोणश्च विज्ञानमूलम् ॥ १३
न हिंसाश्रया वृत्तिरिष्टा जनेषु
भवेत् स्नेह-भावोदयं सौख्यकारी ।
सदा सम्पदो रक्षिता स्युर्जनानां
समाजाश्रया वा नरैराश्रिता वा ॥ १४
तथा स्याद् विकासो यथा लक्ष्यपूर्ति
भवेद् राष्ट्रकार्ये, न रोधः क्वचित् स्यात् ।
समष्टेश्च व्यष्टेर्हितं स्यात् समानं
सदोत्कर्षकारी विकासं श्रियः स्यात् ॥ १५
भवेद् राष्ट्रवृद्धिर्जनानां समृद्धिं
सुखं शान्तिरिष्टा सदैव प्रथेत ।
सदा स्याच्च यूनां सुदृष्टिः प्रकर्षे
गुणोच्छ्रायकार्ये समष्टेर्हिताय ॥ १६
यथाऽऽलस्यलेशो न व्याघातकारी
भवेत् तादृशो मार्ग एवावलम्ब्य ।
क्रियाशीलकत्वं महत्त्वाभिधानं
क्रियारोध एवात्मघाताभिधेयः ॥ १७
प्रवृत्तिर्नराणां भवेद् राष्ट्रकार्ये
रुचिः स्याज्जनानां सुधारे विकासे ।
जनैराश्रितं स्यात्तु मार्गं प्रशस्तं
सुखोदकं एवास्तु सर्वो विधिश्च ॥ १८
स्वदेशे रतिः संस्कृतौ संस्कृतत्वं
सदा स्वाभिमानं महत्त्वं प्रकृष्टम् ।
सदाऽशाश्रयत्वं निराशाक्षयश्च
गुणोत्कर्षहतोर्मुदाऽऽधेयमेव ॥ १९
स्वदेशस्य माहात्म्यमिष्टं भवेच्चेत्
स्वदेहस्य त्यागो वरं देशहेतोः ।
स्वदेशाश्रया श्रीर्नृणां जीवनं च
स्वदेशे समृद्धे सुखं सर्वमेव ॥ २०
Proofread by Mandar Mali