राष्ट्रिय कर्तव्यम्
(तोटकम्)
सुखदा वरदा भय-ताप-हरी
भव-भूति-विभूषित-सौख्यकरी ।
नव-संस्कृति-संस्कृत-संहति-दा
भरतावनिरस्तु सदा प्रथिता ॥
नव-जागरण प्रथतां भुवने
नव-दीप्ति-रुदेतु मनः सु सदा ।
नव-शक्ति-समुच्चय शोभित धी
जनता जन-ताप हरी विलसेत् ॥
नहि मानवता नवता रहिता
नहि दानवता नवता-सहिता ।
नवता प्रतिपद्य समे भुवने
दनुजावलि-नाशनमस्तु कृतिः ॥
कृतिना कृतिरस्तु जनोद्धरणं
जन-मानस-मान-समुद्धरणम् ।
नव-चेतनता तनुता नवता
सकले विकलेऽपि जने प्रमुदे ॥
युवशक्तिरियं जन-शक्ति-युता
जन-ताप-हृती लभता सुयशः ।
व्यपनोद्य तमस्तति-संसरणं
निज-राष्ट्र-हिते रुचिमावहताम् ॥
नहि सा भुवने कठिनाऽपि कृति
युव-शक्तिरियं न करोतु मुदा ।
जन-शिक्षणमार्थिकमुन्नयनं
पतितार्त-दशोद्धरणं भरणम् ॥
युवकेषु विराजत एव विभा
गुण-शक्ति-समुच्छ्रय-सङ्कलनम् ।
मृदुता दृढता विनयावनतिः
गुण-सङ्ग्रहणेऽभिरुचिः सुकृतौ ॥
युवकाः निजकर्मणि सन्तु दृढाः
पर-दुख निवारण-सक्त धियः ।
गुण गौरव शौर्य सुधा-सरसा
सरसामवर्नि दधता कृतिभिः ॥
अबला नहि सन्त्यबला अधुना
सबला प्रबला नय-वर्त्म-विदः ।
नव-जागरणे दधतेऽभिरुचिं
नय-कर्मणि शर्मणि वर्मणि च ॥
प्रमदा प्रमुदा मुदमादधता
नज-देश-समुद्धरणे निरता ।
विरता परदेश-परम्परया
शुभ-शक्ति-समन्वित शौर्य-युता ॥
सुधियो ह्यवमत्य निज व्यसनं
निजराष्ट्र-हिते सुकृते निरता ।
वर-वर्त्म-निबोधन-शक्त-धियो
विलसन्तु भवे भव-ताप-हरा ॥
अयि शूरवरा प्रखरा प्रबला
रिपु-संहति-नाशन-सक्त हृदः ।
समरे प्रखरे च विनाश्य रिपून्
गुरु-गौरव-माप्नुत शौर्य-धनाः ॥
वणिजो निज-वित्त-चयं ददता
पतितार्त हिताय सुखाय सदा ।
मलिना सरणिं परिहत्य निजां
निज-देश-हिताय धनं दधताम् ॥
श्रमिणोऽपि श्रमे रुचिमादधत
स्व-यशः प्रथयन्तु समे भुवने ।
श्रम एव समुन्नति सिद्धि-करं
श्रम एव सुकीर्तिकरं सुखदम् ॥
श्रम एव हितं कुरुते भुवने
श्रम एव समीहितमालभते ।
श्रम एव गुणोच्छ्रयमातनुते
श्रम एव सुखौध-समृद्धि करः ॥
इदमाथिकमुन्नयनं प्रसरेद्
नव-योजन-योजन-मवलितम् ।
दयनीय-दशा पतिता क्षुधिता
मुदिता हृषिता स्युरिमे सुखिता ॥
निज-राष्ट्र-हितं सततं प्रबलं
निज-जीवन-दान-मपीह शुभम् ।
निज-देश-हिते मरणं सुखदं
निज-वित्त-समुच्चय-सन्यसनम् ॥
विलसेद् वसुधा, विकसेद् जनता,
धन-धान्य-समुन्नतिरस्तु शुभा ।
नव-शक्ति-समुच्चय-शान्तधियो
नर-वीर-वरा विलसन्तु सदा ॥
न विरोधकृता गतिरस्तु शुभा
नहि देशहिताय विरोध-मतिः ।
समवेत्य समे निज-राष्ट्र-हिते
दधता स्व-मनासि मनस्विवरा ॥
युव-शक्ति-चयो जनता हृदये
नव शक्ति-चयो विलसेत् प्रसरेत् ।
वसुधाऽस्तु सुधालय-सौख्य-करी
भरतावनिरस्तु मुदे प्रमुदे ॥
Proofread by Mandar Mali