रूपस्तवः
सर्वभूतमणिकम्पित तुभ्यं क्षान्तिमेव चरितं तव रूपम् ।
सर्वरूपवरदिव्यसुरूपं तं नमामि दशबलवररूपम् ॥ १॥
भृङ्गराजशिखिमूर्ध्नि सुकेशं कोकिलाभशिखिदिव्यसुकेशम् ।
स्निग्धनीलमृदुकुञ्चितकेशं तं नमामि दशबलवरकेशम् ॥ २॥
शङ्खकुन्दकुमुदं विमरोमं जन्मदुःखविगतं विमरोमम् ।
रोगशोकविमते विमरोमं तं नमामि दशबलवररोमम् ॥ ३॥
पूर्णचन्द्रद्युतिशोभितवक्त्रं तुङ्गनासमणिभाशुभवक्त्रम् ।
बुद्धपङ्कजिनभामरवक्त्रं तं नमामि दशबलवरवक्त्रम् ॥ ४॥
रश्मिसहस्रविचित्रसुमूर्ध्नि पुष्पवर्षशतपूजितमूर्ध्नि ।
रत्नवर्षशतपूजितमूर्ध्नि तं नमामि दशबलवरमूर्ध्नि ॥ ५॥
नेत्रपताकविलम्बितशीर्षं काञ्चनछत्रवरोपितशीर्षम् ।
नेत्रवितानसुशोभितशीर्षं तं नमामि दशबलवरशीर्षम् ॥ ६॥
दिव्याम्बरमुकुटं मणिमुकुटं चन्द्रप्रभामुकुटामणिमुकुटम् ।
आगतशीर्षमखण्डितमुकुटं तं नमामि दशबलवरमुकुटम् ॥ ७॥
चारुदलायतपङ्कजनेत्रं दिव्यज्ञानविपुलायतनेत्रम् ।
ध्यानमोक्षशुभसंस्कृतनेत्रं तं नमामि दशबलवरनेत्रम् ॥ ८॥
शुद्धकर्णशुभशुद्धसुकर्णं शुद्धप्रज्ञवरशोभितकर्णम् ।
शुद्धज्ञानवरशुद्धसुकर्णं तं नमामि दशबलवरकर्णम् ॥ ९॥
शुभ्रकुन्दशशिपङ्कजदन्तं तीक्ष्णसुलक्षणनिर्मलदन्तम् ।
विश्वपञ्चदशपञ्चसुदन्तं तं नमामि दशबलवरदन्तम् ॥ १०॥
उच्चवाक्यससुरासुरजिह्वां धर्मज्ञानकृतपापदजिह्वाम् ।
गन्धधूपससुरासुरजिह्वां तं नमामि दशबलवरजिह्वाम् ॥ ११॥
मेघसुदुन्दुभिनादितघोषं सत्यधर्मनयसुविदितघोषम् ।
दिव्यवादिपरवादितघोषं तं नमामि दशबलवरघोषम् ॥ १२॥
ग्रीवग्रीवदशग्रीवसुग्रीवं क्षान्तिवीर्यं तव ग्रीवसुग्रीवम् ।
हेमवर्णमणिग्रीवसुग्रीवं तं नमामि दशबलवरग्रीवम् ॥ १३॥
सिंहकायहिमकुन्दसुकायं ध्यानकायगुणसागरकायम् ।
अष्टसुलक्षणनिर्मलकायं तं नमामि दशबलवरकायम् ॥ १४॥
श्वेतरक्तशुभशोभितवस्त्रं नीलपीतहरितायितवस्त्रम् ।
हारधवलशुभशोभितवस्त्रं तं नमामि दशबलवरवस्त्रम् ॥ १५॥
हेमनागकरसंस्कृतबाहू पुष्पदानकृतशोभितबाहू ।
धीरवीर्यसुमनोहरबाहू तं (तौ) नमामि दशबलवरबाहू ॥ १६॥
चामरचक्रसुशोभितहस्तं विमलसुकोमलपङ्कजहस्तम् ।
भूतप्रेतशरणागतहस्तं तं नमामि दशबलवरहस्तम् ॥ १७॥
रागद्वेषतनुवर्जितचित्तं कल्पकोटिसमभावितचित्तम् ।
शीलज्ञानसमभावितचित्तं तं नमामि दशबलवरचित्तम् ॥ १८॥
पद्मनाभशुभशोभितनाभं पद्मयोनिशुभशोभितनाभम् ।
ब्रह्मज्योतिसुशोभितनाभं तं नमामि दशबलवरनाभम् ॥ १९॥
चक्रसुलक्षणभूषितपादमङ्कुशशक्तिविराजितपादम् ।
नागयक्षगणवन्दितपादं तं नमामि दशबलवरपादम् ॥ २०॥
भास्करद्युतिराजितपादं देवदानवगणवन्दितपादम् ।
सर्वदेवगणवन्दितपादं तं नमामि दशबलवरपादम् ॥ २१॥
सर्वदेवगणपूजितशीर्षं सूर्यकोटिसमभावितशीर्षम् ।
दिव्यज्वालज्वलितार्पितशीर्षं तं नमामि दशबलवरशीर्षम् ॥ २२॥
पुष्पधूपशतपूजितशीर्षं दीपगन्धशतपूजितशीर्षम् ।
माल्यवस्त्रशतपूजितशीर्षं तं नमामि दशबलवरशीर्षम् ॥ २३॥
त्रिभुवनधर्मकलाभ्युष्णीषरत्नछत्रमुकुटादिपूजितम् ।
ये पठन्ति सुगतस्तवमेनं ते लभन्ति शुभमोक्षपथाधिगमम् ॥ २४॥
इति श्रीमदार्यावलोकितेश्वरभट्टारकस्य रूपस्तवं सम्पूर्णम् ॥