रक्तदानम्
(भुजङ्गप्रयातं वृत्तम्)
इदं भारतं याचते रक्तदानं
धरेयं सदा भिक्षते देहदानम् ।
सदा पीडिता शोषिता भारती भूः
सदा तप्तगात्रा शुचा क्षीणकान्तिः ॥
सुता येऽधुना स्वार्थ-सम्मुग्ध चित्ता,
धनैगर्हितैर्गौरवं कामयन्ते ।
निजं स्वार्थ लिप्ता धनैकाश्रयास्ते ।
न मातुः शुचः चेतसा चिन्तयन्ति ॥
न नीचैः खलैरेभिरेषा धरित्री
शुचाऽऽक्रान्त-चित्ताऽवमोक्तुं तु शक्या ।
इयं धीर-धुयैर्मुदा देहत्यागैः
स्व-रक्त-प्रदानैः सदा सान्त्वनीया ॥
इयं शोषिताऽऽङ्ःलै सदा क्रूरधीभिः
इयं पीडिता पामरैयाविनैश्च ।
इयं शोष्यते भूतिवादैरजस्रं
सदा धर्महीनैः सदा क्रूरकृत्यैः ॥
धरेयं विनष्टा प्रतप्ता कुपुत्रैः
खलैर्धमहीनैः सदा स्वार्थपूरैः ।
न ते मातृभूमे शुचः चिन्तयन्ति
नराः पामरास्ते सदा गर्हणीया ॥
न तेष्वस्ति देशोन्नते काचिदाशा
न देशाभिमानं न वा देशभक्तिः ।
सदा शोषणे दत्तचित्ता समे ते
नराणां भवेयु सदा कोपभाजः ॥
स्वदेशे विदेशे च ये देशभक्ताः,
नरैस्तर्पिता तैर्धरा रक्तदानैः ।
बलिस्तादृशाः कीर्तिभाजा धरित्री
सदा सौख्ययुक्ताः सुपुष्टा विधत्ते ॥
अये भारतीयाः निजं कर्मजातं
हृदा चिन्तयध्वं तथा च कुरुध्वम् ।
इय मातृभूः शोक-सन्ताप-ग्रस्ता
सदा याचते तेऽवधानं समग्रम् ॥
मुदा रक्तदानं मुदा वित्तदानं
मुदा भूमिदानं मुदा स्वार्थ-दानम् ।
मुदा आत्मत्यागो मुदा देहत्यागं
स्वमातुर्हितायेप्सितं सौख्यसिद्धयैः ॥
विना रक्तदानं न सम्भाव्यते श्री,
न वा शोकनाशो न दुःखाऽधि-नाशः ।
सदा रक्तदानाऽऽश्रया श्री समृद्धिः
गुणानां विवृद्धिः सुखानां च सिद्धिः ॥
Proofread by Mandar Mali