रथविश्लेषणम्

रथविश्लेषणम्

लेखकः - नन्दप्रदीप्तकुमारः श्रीक्षेत्रे रथयात्रा विश्वप्रसिद्धा । बहु पुरातनी रथसंस्कृतिः । अस्माकं भारतवर्षे वैदिककालादारभ्य रथनिर्माणस्य परंपरा वर्तते । पुर्य्यां त्रिषु रथेषु २१८८ काष्ठखण्डानि व्यवह्रियन्ते । तेषु फाशी-धौरा-असन-शाल्मली-देवदारु-पालधुआ-कांस-महानिम्ब-वृक्षाणां प्रमुखभूमिका वर्तते । इमे वृक्षाः नयागड-दशपल्ला वनविभागेन प्रदीयन्ते । वैशाख-शुक्ल-तृतीया अथवा अक्षयतृतीया-दिवसात् प्रतिवर्षं नवीन-रथनिर्माणस्य शुभारम्भो जायते । शिल्पशास्त्र-मानसार-अपराजितपृच्छा-शुल्वसूत्र-मयमत-विशकर्मप्रकाश- शिल्पसारसंग्रहादिषु ग्रन्थेषु रथनिर्माणस्य वर्णनं लभ्यते । शिल्पशास्त्रानुसारं नन्दिघोषादिरथानां निर्माणं भवति । देवी चर्च्चिका रथनिर्माणस्य इष्टदेवी । श्रीनहर (राजगृहस्य) सम्मुखे इयं देवी विराजमाना । तत्र रथखलां (रथनिर्माणस्थानम्) निर्माय रथनिर्माणकार्यं जायते । रथनिर्माणे ये जनाः नियुक्ता भवन्ति तेषु विश्वकर्म(वर्धकी)-कर्मकार-रूपकार-चित्रकार-सूचीकार-भोइसेवकाः प्रमुखाः । ते निर्मातारः पारंपरिक-हस्त-अगुलि-मानेन रथनिर्माणं कुर्वन्ति ॥

१ - नन्दिघोषः

नन्दिघोषः श्रीजगन्नाथस्य स्यन्दनम् । अस्य नन्दिघोषस्य गरुडध्वज-चक्रध्वज- कपिध्वजभेदेन नामानि प्रसिद्धानि । अयं रथः इन्द्रप्रदत्तः । रथरत्नं स्पटिकम् । विश्वकर्मा अस्य निर्माता । ३३ हस्त ५अंगुल =४४फुट ३ इञ्च उच्च-परिमिते अस्मिन् रथे ८३२ संख्यकानि काष्ठानि व्यवह्रियन्ते । अस्य षोडशसिद्धि-परिमितानि १६ चक्राणि,१६ अराश्च भवन्ति । प्रतिचक्रस्य व्यासः ७ फिट् । दैर्घ्य-प्रस्थौ ३५ फुट् । रथपीठस्य क्षेत्रफलः १२२५ फुट् । भूमेः दधिनौति-उच्चता २४ फुट् । पीतलोहितो रथावरणः । हिरण्यगर्भः दधिनौतिः । तत्र जीव-परमौ शुकपक्षियुगलौ । दारुकः रथ-सारथिः । चत्वारो घोटकाः शंख-श्वेत-बलाहक-हरिदश्वाः शुभ्राः । रथरज्जुः शंखचूडः । नभ-व्योम-आकाशानि त्रयः कलशाः । कलशोपरि शून्यचक्रस्य नाम सुदर्शनम् । पताका त्रैलोक्य मोहिनी । ध्वजचिह्नं हनुमान् । शंख-चक्रे रथायुधे । षोडशदलाकृतिः भद्रपीठः । चन्द्रातपनाम कनकमुण्डी । सम्मुखद्वारस्य चित्रं कल्पवृक्षस्य द्वे पत्रे । उत्सवमूर्त्ती वासुदेव-मदनमोहनौ । जय-विजयौ द्वारपालौ । कुमुद-कुमुदाक्षौ प्रतिहारौ । रथरक्षकौ इन्द्र-गरुडौ । भैरव-नरसिंह-गरुड-वासुदेवाः रथपालाः । रथाधिपो वैनतेयः । रथदेवता नृसिंहः । शीर्षदेवता कल्याणसुन्दरः । चरदेवौ वराह-नृसिंहौ । सम्मुख पार्श्वदेवताः ब्रह्मेन्द्र-सप्तर्षयः । पृष्ठभागदेवताः नृसिंह-राम-नारायणाः । वामभागदेवताः त्रिविक्रम-हनुमत्-रुद्राः । दक्षिणे वराह-कृष्ण-गोपीनाथाः । रथदेवी योगमाया । रथभैरव एकपात् । रथशक्ती विमला -विरजे । रथयक्षः हर्याक्षः । रथगन्धर्वः वैधृतिः । रथ-सम्मुखे फुलमोची उर्वशी, पृष्ठे कनकमञ्जरी काममञ्जरी, वामे प्रेममञ्जरी चम्पकमञ्जरी, दक्षिणे अनंगमञ्जरी भ्रमरमञ्जरी चेमाः सर्वाः रथासीना अप्सरसस्तथा नारद-देवल-व्यास-शुक-पराशर-वशिष्ठ-विश्वामित्र-रुद्राः ऋषयश्च नन्दिघोषे विलसन्ति ॥

२ - तालध्वजः

तालध्वजरथस्य नायकः देवाधिदेवो बलदेवः । अस्य लांगलध्वज इति नामान्तरमस्ति । रथरत्नं मर्कतम् । मयदानवः अस्य निर्माता । ३२ हस्त १०अंगुल अथवा ३९ फुट् ४ इञ्च उच्चमान-विशिष्टेऽस्मिन् रथे ७६३ काष्ठखण्डानि व्यवह्रियन्ते । चतुर्दशभुवनसंज्ञकानि अस्य १४ चक्राणि,१४ अराश्च सन्ति । चक्रव्यासः ६ फुट् । रथपीठो मेरुकैलाश-संज्ञकः ३४ फुट् दैर्घ्य-प्रस्थविशिष्टः अष्टदलपद्माकारश्च । क्षेत्रफलः ११५६ फुट् । रथावरणः नीललोहितः । दधिनौतेर्नाम भुवनकोषः । अस्मिन् सुपर्ण-द्वासुपर्णौ शुकपक्षियुगलौ । चन्द्र-सूर्य-विद्युतः कलशत्रयः । कलशोपरि शून्यचक्रं कालसंहारः । पताका ऊन्मनी । ध्वजे तालचिह्नम् । रथरक्षकाः वासुदेव-भास्कर-रुद्राः । हल-मुसलौ रथायुधे । तीव्र-घोर-दीर्घश्रम-स्वर्णनाभाः चत्वारो घोटकाः कृष्णवर्णाः । रथरज्जुर्वासुकिः । ब्रह्म-शिवौ रथशक्ती । चन्द्रातपः कनकमेखलः । सम्मुखद्वारचित्रं पञ्चपत्रविशिष्टं तालपत्रम् । राम-कृष्ण-गोपालाः उत्सवमूर्त्तयः । सुशील-अतिशीलौ प्रतिहारौ । रथपालः आदिशेषः । रथाधिपः बृहन्न्यासः । शीर्षदेवता अनन्तनागः । चरदेवौ ब्रह्म-शिवौ । गणेश-कार्त्तिकेय-मृत्युञ्जय-सर्वमंगला-प्रलम्बारि-हलायुध-नाटाम्बर-मुक्तेश्वर-शेषदेवाः नवपार्श्वदेवताः । रथदेवी केतुभद्रा । भैरवः क्षेत्रपालः । रथशक्ती जयदुर्गा शूलिनी दुर्गा च । रथयक्षः प्रचण्डः । जया- विजया-चण्डी-चण्डरूपा- नन्दा-आनन्दा-सनन्दा-तिलोत्तमाः अष्टौ अप्सरसः । अंगिरा-पुलह-पुलस्त-कृष्ण-मुद्गल-आत्रेय-काश्यप-आसष्टयः अष्टौ ऋषयः तालध्वजे निवसन्ति ॥

३ - देवदलनः

देवदलनस्य नायिका देवी सुभद्रा । अस्य रथस्य दर्पदलन इति नामान्तरमस्ति । रथरत्नं माणिक्यम् । कालनेमी अस्य निर्माता । ३१ हस्त वा३७ फुट् ६ इञ्च अस्य उच्चता । ५९३ काष्ठखण्डानि अस्मिन् रथे व्यवहृतानि । अस्य राशिस्वरूपाणि १२ चक्राणि, १२ अराश्च सन्ति । चक्रव्यासः ५ फुट् । रथपीठः काम्पिल्यः ३३ फुट् दैर्घ्य-प्रस्थविशिष्टः सहस्रदलपद्माकारः । क्षेत्रफलः १०८९ फुट् । रथावरणः कृष्णलोहितः । हिरण्मयी दधिनौतिः । अत्र श्रुति-स्मृती शुकपक्षियुगलौ । परा-अपरा-वैखर्यः त्रयःकलशाः । दीप्तनामा शून्यचक्रम् । नादाम्बिका वैजयन्ती । शुभ्रपद्मं ध्वजसंकेतः । रथायुधौ पद्म-कल्हारौ । वीरघण्टः चन्द्रातपः । सम्मुखद्वारे पञ्चलताकार-चित्रम् । रथाधिश्वरौ सुभद्रा-सुदर्शनौ । उत्सवमूर्तिः जयदुर्गा । गंगा-यमुने द्वारपाले । सारथिः अर्जुनः । रोचिका-मोचिका-जिता-अपराजिताः चतस्र अश्वाः रक्तवर्णाः । स्वर्णचूडः रथरज्जुः । विमला-दुर्गा-वाराही-चामुण्डा-भुवनेश्वरी-हरचण्डी-जयदुर्गा-सर्वमंगला-उग्रताराः नव-पार्श्वदेव्यः रथस्य । भृगु-सुप्रभ-वज्र-श‍ृंगि-ध्रुवाः रथ-ऋषयः । मनोरमा-तिलोत्तमे प्रतिहारे । रथरक्षके उग्रचण्डा-चन्द्रघण्टे । रथपालो हरिहरः । रथाधिपा वनदुर्गा । रथदेवता महामंगला । रथदेवी चन्द्रघण्टा । भैरवो घण्टाकर्णः । यक्षः किंज्वल्किकः । गन्धर्वः हा हा । एताः देवताः देवदलने विराजन्ते तराम् । अलं पल्लवितेन । जय जगन्नाथ ॥ - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Ratha Vishleshanam
% File name             : rathavishleShaNam.itx
% itxtitle              : rathavishleShaNam (lekhaH)
% engtitle              : rathavishleShaNam
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Description/comments  : Description of chariots at Jagannatha Rathayatra
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : July 17, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org