सूर्योऽहम्
प्रातःकाले पूर्वस्यां दिशि
उच्चस्थोऽहं मध्याह्ने ।
पुनश्च सायं पश्चिमभागे
ततश्च प्रातः पुनरागमनम् ॥
स्पृशञ्च नित्यं करैस्सहस्रैः
प्रबोधयेऽहं सुप्तानखिलान् ।
नियुज्य तान् निजकर्मणि पश्चा-
त्तनोति मामकमूर्जमनन्तम् ॥
मित्रोऽहं सर्वेषां मित्रं
शत्रुरहं सततं तिमिराणाम् ।
चक्षुरहं जगतामपि नित्यं
रक्षक एवाहं सकलानाम् ॥
--- मुत्तलपुरम् मोहनदासः