संस्कृताय प्रददातु
सुन्दरं सुबद्धमस्माकं संस्कृतम् ।
संस्कृताय प्रददातु स्वकं जीवनम् ।
पठतु लिखतु वदतु सदा हि संस्कृतम् ।
भारते पश्येम पुनर्हि संस्कृतम् ॥ धृ॥
प्राणांश्च दत्वाऽपि शेभ्यं तु यद् हे ।
ह्येयं कदापि च त्यक्तं न तद् हे ।
यो हि स्तोति नित्यं पुनाति संस्कृतम् ॥ १॥
कस्यास्ति संस्कृतं न निश्चिनोति कश्चित् ।
ममैव संस्कृतमिति ब्रुतेहि कश्चित् ।
आगच्छ मित्र तावकं संस्कृतम् ॥ २॥
जीवेषु वसति संस्कृतेन समात्मा ।
यो ह्येतद् जानाति सोऽत्र परमात्मा ।
संस्कृतस्य चरणे ददामि पङ्कजम् ॥ ३॥
Encoded from audio and proofread by manish gavkar manishyg at gmail.com