संस्कृतं नमाम्यहम्
संस्कृतं पठाम्यहं संस्कृतं वदाम्यहम् ।
संस्कृतप्रचारणे तत्परो भवाम्यहम् ॥ १॥
सर्वलोकविश्रुतं संस्कृतं भजाम्यहम् ।
सज्जनैश्च सेवितं संस्कृतं नमाम्यहम् ॥ २॥
काव्यपुष्टकोमलं शास्त्रतत्त्व सेवितम्
पावनेषु पावनं संस्कृतं भजाम्यहम् ॥ ३॥
सर्वलोकविश्रुतं संस्कृतं प्रपाठय
सर्वमङ्गलाय मे संस्कृतं समर्थकम् ॥ ४॥
प्राणवायुसम्मितं संस्कृताय सेव नम् ।
सर्वलोकरक्षणं संस्कृतव्रतं महत् ॥ ५॥
संस्कृताय सेवनं सत्त्वगुणवर्धकम्
नित्यसौख्यहेतुकं जीवनाय साधकम् ॥ ६॥
सर्वपुण्यसागरं सर्वकर्मबोधकम्
सर्वथा हितं परं तं भजे सनातनम् ॥ ७॥
संस्कृते रतिर्मम भक्ति२स्त्य चञ्चला
सिद्धिरस्तु मे सदा भारति! गुणात्मिके! ॥ ८॥
संस्कृतेन भाषणे संस्कृतस्य रक्षणे
संस्कृताय चार्पणे सेवको भवाम्यहम् ॥ ९॥
संस्कृतं प्रसारय संस्कृतं प्रसाधय
संस्कृतस्य संस्कृतिं सर्वदा नुशीलय ॥ १०॥
--- विजयन् वि. पट्टाम्बी