संस्कृतभाषागरिमा
(शिखरिणी)
ऋषीणामाद्यानां गहन-मननावाप्त-सुयशा,
श्रुतीनां शास्त्राणां निखिल-गुण-तत्त्वार्थ निलया ।
पुरातत्त्वाऽऽधारा सकल-भव ज्ञानाब्धि-विभवा,
जयेद् दैवी वाणी त्रिभुवन-मनोज्ञा बुध प्रिया ॥ १॥
(अनुष्टुभ्)
दिव्या गीर्वाणवाणीयं ज्ञान-शक्ति-सुख-प्रदा ।
मानसे रमता नित्यं हृदि मे सुखमावहेत् ॥ २॥
संस्कृते सुन्दरं सर्वं संस्कृते मधुरं समम् ।
संस्कृते ज्ञान-विज्ञानं संस्कृते सुषमा शुभा ॥ ३॥
संस्कृतं देवभाषाऽस्ति विदुषां च मनोरमम् ।
संस्कृतं जन-तापस्य हारकं परमं मतम् ॥ ४॥
देशभक्तिः गुणप्रीतिः शिक्षितुं यदि ते मनः ।
संस्कृते मन आधत्स्व ज्ञान विज्ञान-वारिधौ ॥ ५॥
संस्कृते नहि काठिन्यं यथेदमवमानितम् ।
लोक-भाषा-पद प्राप्ता विद्वद्भाषेति वन्द्यते ॥ ६॥
संस्कृतं भारतस्यास्ति गौरवं मान-वर्धनम् ।
वेद शास्त्रैर्युतं काव्ये गीता-रामायणादिभिः ॥ ७॥
संस्कृते संस्कृतिः पूता राष्ट्र-गौरव-वृद्धि दा ।
ज्ञान विज्ञानमध्यात्मं शिक्षा विश्वसुखावहा ॥ ८॥
Proofread by Mandar Mali