संस्कृतभाषा सरला सुलभा
संस्कृतभाषा सरला सुलभा
माता मम सा पुत्रवत्सला ॥
भाषणमनया दशदिनसाध्यं
तोएषकरं ननु सरलतरम् ।
स्यात् संस्कृततो नवता समता
मधुरो भावो देशहितम् ॥
उटजनिवासी भवनावासी
वृद्धो शिशुरपि तरुणगणोऽपि ।
यो वा को वा भारतवासी
अर्हति भवितुं संस्कृतभाषी ॥
सन्तु हि दोषाः प्रथमे घट्टे
सिध्यति शुद्धिर्यत्नबलात् ।
मास्तु भयं हृदि शङ्का लज्जा
यत्नः क्रियतां अनवरतम् ॥
अविरतसेवा वाचा पूजा
संस्कृतमातुर्भवतु चिरम् ।
जनपदभाषा भारतभूषा
संस्कृतभाषा जयतुतराम् ।
- जनार्दन हेगडे
Encoded and proofread by Shubha shubhazero at gmail.com