संस्कृतं लोकरञ्जकम्
जयतु भारतं विश्वमोहनं
नमतु सादरं भारताम्बिकाम् ।
भजतु संस्कृतं वेदमातरं
पठतु संस्कृतं लोकरञ्जकम् ॥
सदुपदिश्यते मातृवत् सदा
हितकरी दिशं दिशति संस्कृतम् ।
पठतु संस्कृतं ज्ञानलब्शये
विनयमाप्नुयात् विश्वभाषया ॥
यदिह विद्यते तद्भवेत्क्वचित्
यदिह नासते नास्ति तत् क्वचित् ।
अतिमहत्तरमस्य वैभवं
अतुलमक्षयं भजत संस्कृतम् ॥ ३॥
हितोपदेशकैर्सुभाषितैर्युतं
हृदयरञ्जकैः काव्यतल्लजैः ।
विपुलवैभवं शास्त्रसम्मितं
संस्कृतं सदा मोदायकम् ॥ ४॥
भुवि कदापि न क्षरति संस्कृतं
अमृतशोषणं कथं भविष्यति? ।
त्यजतु संशयं भजतु प्रत्ययं
पठतु संस्कृतं स्वास्थ्यमाप्नुयात् ॥ ५॥
-- मुथलपुरं मोहनदास