संस्कृत-वागेव मे शरणम्
(बहादुरचन्द्रश्चापोत्कटः)
ऋषयः सिषेविरे यां द्रष्टारो वेदमन्त्राणाम् ।
सर्वातिशायिनी सा संस्कृतवाणी जयत्यनिशम् ॥ १॥
मुनयश्च भेजिरे यां वाल्मीकिव्यासकपिलाद्याः ।
तामेव वन्दनीयां वन्देऽहं भारती भव्याम् ॥ २॥
बहु मेनिरेऽथ बहवः कवयो यां कालिदासाद्याः ।
तामेव परमपूज्यां देवीं वाचं नमस्यामि ॥ ३॥
यस्यां सदास्ति गुप्तो भारतभूमेः सनातनो धर्मः ।
तामेव नौमि धन्यां शेवधिभूतां गिरं दिव्याम् ॥ ४॥
आविश्वं तन्वाना भारतवर्षस्य संस्कृतेर्ज्योतिः ।
विश्वस्य भूषणं सा संस्कृतवागेव मे शरणम् ॥ ५॥
(कवि - एम.ए., एम.ओ.एल., पीएच. डी., संयुक्त महानिदेशकः,
केन्द्रीय पुरातत्त्व विभाग, देहली ।)
Encoded and proofread by Mansi Sharma