संस्कृति-गीतिका
विजयतेतराम्, ॐकार-भारती, संस्कार-भारती ।
शुचि-वर्णम्, अन्तःकरणम्,
भुवि भव्या प्रतिभा विभास्वती ।
विजयतेतराम्, ॐकार-भारती, संस्कार-भारती ॥ (ध्रुवम्)॥
गुण-समुज्ज्वला सौम्या सुजला भारत-जननी ;
वैभव-पूर्णा मधुराभरणा भुवन-पावनी ।
सुनिर्मला, रम्योर्मि-चला,
इह गङ्गा यमुना सरस्वती ।
विजयतेतराम्, ॐकार-भारती, संस्कार-भारती ॥ १॥
विश्व-विश्रुता श्रुतिरनवद्या विद्या सकला ;
चर्चित-विबुधा ललिता विविधा प्रिय-चारुकला ।
विराजते, निखिल-भारते,
परमार्या परम्परा महती ।
विजयतेतराम्, ॐकार-भारती, संस्कार-भारती ॥ २॥
सङ्गीत-सुधा सङ्गत-रङ्गा जन-मनोहरा ;
प्रसरति नित्यं नृत्य-माधुरी रस-रागभरा ।
चित्र-कला, सुपवित्र-फला,
प्रतिहृदयं प्रमुदं वितन्वती ।
विजयतेतराम्, ॐकार-भारती, संस्कार-भारती ॥ ३॥
शिव-सङ्कल्पा शिल्प-चातुरी वाङ्मयाङ्किता ;
स्थापत्य-दिशा मन्दिर-माला समभिनन्दिता ।
सुरञ्जिनी, ताप-भञ्जिनी,
चिर-सुभगा शुभ-कीर्त्ति-व्रतती ।
विजयतेतराम्, ॐकार-भारती, संस्कार-भारती ॥ ४॥
जीवन-धारा विगत-विकारा वहतु सौख्यदा ;
मानवताया ज्योति-र्दिव्यं लसतु सर्वदा ।
जागरणे, कर्माचरणे,
इह सुजनो महतां तपोव्रती ।
विजयतेतराम्, ॐकार-भारती, संस्कार-भारती ॥ ५॥
संहति-सूत्रा भारत-पुत्रा मैत्री-भरणे ;
शान्ति-भावना धार्या नियतं पर्यावरणे ।
मातृ-पदे, मङ्गलास्पदे,
प्रणति-र्नो नितरां भक्तिमती ।
विजयतेतराम्, ॐकार-भारती, संस्कार-भारती ॥ ६॥
-- गीतरचना : डाॅ हरेकृष्ण-मेहेरः
Copyright Dr.Harekrishna Meher