संस्कृतगौरवगानम्
भारतीयैकता-साधकं संस्कृतं
भारतीयत्व-सम्पादकं संस्कृतम् ।
ज्ञान-पुञ्ज-प्रभा-दर्शकं संस्कृतं
सर्वदानन्द-सन्दोह-दं संस्कृतम् ॥ १॥
सर्व-मस्तिष्क-संस्कारकं संस्कृतं
सर्व-वाणी-परिष्कारकं संस्कृतम् ।
सत्पथ-प्रेरणा-दायकं संस्कृतं
सद्गुण-ग्राम-सन्धायकं संस्कृतम् ॥ २॥
विश्ववन्धुत्व-विस्तारकं संस्कृतं
सर्वभूतैकता-कारकं संस्कृतम् ।
सर्वतः शान्ति-संस्थापकं संस्कृतं
पञ्चशील-प्रतिष्ठापकं संस्कृतम् ॥ ३॥
त्याग-सन्तोष-सेवा-व्रतं संस्कृतं
विश्वकल्याण-निष्ठायुतं संस्कृतम् ।
ज्ञान-विज्ञान-सम्मेलनं संस्कृतं
भुक्ति-मुक्ति-द्वयोद्वेलनं संस्कृतम् ॥ ४॥
धर्मकामाथं-मोक्ष-प्रदं संस्कृतं
ऐहिकामुष्मिकोत्कर्ष-दं संस्कृतम् ।
कर्मद ज्ञानदं भक्तिदं संस्कृतं
सत्यनिष्ठं शिवं सुन्दरं संस्कृतम् ॥ ५॥
``सोऽहमस्मीति''-निश्चायकं संस्कृतं
``त्वं तदेवेति'' सङ्गायकं संस्कृतम् ।
``एकमेवाद्वयं''-बोधकं संस्कृतं
सर्वदा सत्यसंशोधकं संस्कृतम् ॥ ६॥
शब्द-लालित्य-लीलावनं संस्कृतं
चारु-माधुर्य-धारागृहं संस्कृतम् ।
विश्व-चेतश्चमत्कारकं संस्कृतं
पूर्वजानां यशःस्मारकं संस्कृतम् ॥ ७॥
नगरे नगरे ग्रामे ग्रामे विलसतु संस्कृत-वाणी
सदने सदने जन-जन-वदने जयतु चिरं कल्याणी ।
सत्य-शील-सौन्दर्य-समीरा, ज्ञान-जला, गति-सारा,
छल-छल कल-कल प्रवहतु दिशिदिशि
पावन-संस्कृत-धारा ॥ ८॥
- वासुदेवद्विवेदी शास्त्री