सैन्य गीतम्
(लय-कदम कदम बढाये जा॥॥)
सादरं समीयताम्,
वन्दना विधीयताम्,
श्रद्धया स्वमातृभू - समर्चना विधीयताम्, ॥ १
आपदा भवन्तु वा, विद्युतो लन्तु वा,
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा,
धीरता न हीयताम्,
वीरता विधीयताम,
निर्भयेन चेतसा पदं पुरो निधीयताम् ॥ सादरं०॥ २
प्राणदायिनी इयम्, त्राणदायिनी इयम्,
शक्ति - मुक्ति - मुक्तिदा सुधाऽनपायिनी इयम्,
एतदीय -- वन्दने,
सेवनेऽ भिनन्दने,
साभिमानमात्मनो जीवन प्रदीयताम् ॥ सादरं०॥ ३
- वासुदेव द्विवेदी शास्त्री
Proofread by Mandar Mali