सखि मन्दिता अह तारकाः
सखि मन्दिता अह तारका आयासि किम् एतर्हि वा ॥ धृ.॥
मधुरा निशा सुमनोहरा इयमागता च गता वृथा ।
प्रहर एष हि अन्तिमः सार्थस्त्वया कार्यो नु वा ॥ १॥
हृदि वर्तते प्रीतिश्च मे अधरेऽपि गीतं वर्तते ।
प्रेमगानं साधयन् वै त्वं स्वरो भवितासि वा ॥ २॥
यद्यद् हि लभ्यं जीवने तत्सर्वमपि लब्धं मया ।
मन्ये हि काचिद् न्यूनता त्वं पूर्तता भवितासि वा ॥ ३॥
आवाहनेन विना हि वा यदि मृत्युरागच्छेदिह ।
पलमसौ तिष्ठेत् परं वै ब्रूहि किम् एया नु वा ॥ ४॥
गायकः धनञ्जय जोशी, नेरळ दूरभाषाङ्कः ९८२२४३९८९७
मूळ मराठी गीत सखि मंद झाल्या तारका
(गीतकार - सुधीर मोघे, संगीतकार - राम फाटक ) ।
संस्कृतानुवादकः - राजेन्द्र दातार, बदलापूर दूरभाषाङ्कः - ९४२१६२६८१४