समाराध्यं राष्ट्रम्

समाराध्यं राष्ट्रम्

(शिखरिणी) अहिंसायाः स्रोतः प्रवहति विशालं प्रतिपलं समेषां धर्माणां प्रचलति विधानं च विशदम् । समाराध्या वृत्तिः सुजनचरिता विश्वविदिता समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ १॥ समाराध्या गीता भगवदनुगीता सुविदिता समाराध्या सीता जनकदुहिता प्रेममहिता । समाराध्या दुर्गा जनितशुभसर्गा सुरनुता समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ २॥ समाराध्यो रामो दशरथतनूजो रिपुजयी समाराध्यः कृष्णो यदनुचरितं भारतमिदम् । समाराध्यो गान्धी जनक इव मान्यो ननु नृणां समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ ३॥ महावीरो बुद्धोऽखिलजनहितो नानकगुरुः कबीरो मीरा नो युगपुरुषधीराः सुकृतिनः । कलाकाव्यादीनाममृतमधुरं रम्यवचनं समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ ४॥ अखण्डं सद्रूपं प्रसरतु सदा वैभवयुतं समृद्धं सौभाग्यं सुखयतु च लोकं प्रतिदिशम् । स्वराज्यं सम्प्रीतं प्रभवतु सुराज्यं च विशदं समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ ५॥ समाख्यानं यत्र प्रचलति विशेषेण विधिना चतुर्णां वेदानां निखिलजनवन्द्यं सुविदितम् । पुराणानां गाथा सुखयति च चित्तं जनिमतां समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ ६॥ ऋतूनां सर्वेषां विलसति च शोभा विकसिता सुचित्राणां सृष्टिः सकलसुखदृष्टिश्च सुभगा । मनःप्रीतां प्रीतिं जनयति च चित्ते प्रमुदिते समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ ७॥ निदानं भावानां सुजनगणवन्द्यं सुखकरं प्रधानं राष्ट्राणां विकिरति च सौख्यं बहुविधम् । प्रियागारं रम्यं भुवनरमणीयं प्रणयवत् समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ ८॥ वितानं सौराज्यं प्रसरति च देशेऽत्र महिते न कः प्रीतिं यातः कथयतु च तथ्यं न वितथम् । सदा रक्ष्यं लक्ष्यं भरतवसुधाया अहरहः समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ ९॥ कलारत्नं गीतं गगनतलरत्नं दिनमणिः श्रुतौ भक्तीरत्नं श्रवणपुटरत्नं हरिकथा । ``समाराध्यं राष्ट्रं'' समवचनरत्नं च कथनं समाराध्यं राष्ट्रं सकलगुणहृद्यं च सततम् ॥ १०॥ रचयिता - डाॅ राजदेव मिश्र प्राक् कुलपति, सम्पूर्णानन्द विश्वविद्यालय वारणसी आलोकपुरी फैजाबाद, उत्तरप्रदेश (चलभाष ९२३५४२१६८१) Encoded and proofread by Nikhil Kancharlawar
% Text title            : Samaradhyam Rashtram
% File name             : samArAdhyaMrAShTram.itx
% itxtitle              : samArAdhyaM rAShTram
% engtitle              : samArAdhyaM rAShTram
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Prof. Rajadev Mishra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nikhil Kancharlawar
% Proofread by          : Nikhil Kancharlawar
% Indexextra            : (Scan)
% Latest update         : May 16, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org