संन्यासिनः गीतिः २
दूरादैहिकरूपशून्यगिरितः प्रोत्थं घनारण्यतो
शान्तं यद्धनकामकीर्तिभिरपि व्याहन्यतेऽद्यापिनो ।
सत्यं ज्ञानसुखप्रवाहसहितं, नित्यं यदुच्चस्वरै-
र्गीतं तन्ननु गीयतां स्थिरयते! ॐ तत्सदोमित्यदः ॥ १॥
भ्रातर्नाशय बन्धकं स्वनिगडं हैमं भवेद्वायसं
प्रेमेर्षासदसत्स्वरूपमखिलं द्वन्द्वं परित्यज्यताम् ।
दासौ पूजितदण्डितावपि समौ यत्काञ्चनं बन्धनं
स्थेयो धीरयतेस्ति गायतु भवानोन्तत्सदोमित्यदः ॥ २॥
या त्वज्ञानमरीचिकान्धतमसं संवर्धयन्ती भृशं
मृत्योर्मृत्युमभीक्ष्णमानयति या तामैहिकेहां त्यजेः ।
``विश्वं जेतुमलं कृतात्मविजयो'' जानन्निदं दुःखितो
मा भूर्धीरयतेऽद्य गायतु भवानोन्तत्सदोमित्यदः ॥ ३॥
``भोग्यं कर्मफलं'' ब्रुवन्ति नियतं कार्यं निदानात्सतः
हेतोः सत्फलमेत्यसत्तदसतो, बाधो न विद्याश्रयः ।
रूपं बन्धनवत् तथापि नितरां त्वं नामरूपातिगो
मुक्तात्मा, ननु गीयतां स्थिरयते! ॐ तत्सदोमित्यदः ॥ ४॥
यन्मित्रं जननी पिताथ तनयस्तत्स्वप्नतुल्यं वृथा
माता कस्य सुतोऽथ मित्रमथवाऽलिङ्गः स एकोऽस्ति चेत् ।
सर्वः सर्वगतः स एव न परं किञ्चित्ततो विद्यते
सत्त्वं धीरयतेऽसि, गायतु भवानोन्तत्सदोमित्यदः ॥ ५॥
एको लाञ्छननामरूपरहितो मुक्तस्तथा चिन्मयो
माया यं समुपाश्रितावसृजति स्वप्नेन तुल्यं जगत् ।
साक्षी सत्त्रिगुणात्मकप्रकृतिवद्रूपेण संलक्ष्यते
स त्वं धीरयतेऽसि, गायतु भवानोन्तत्सदोमित्यदः ॥ ६॥
भ्रातर्मुक्तिमिमां क्व वा मृगयसे? नायं न लोकोऽपर-
स्तद्दाता न च लभ्यतेऽत्र भवता शास्त्रे तथा मन्दिरे ।
हस्तेनाकलिता त्वयैव रशना याकर्षति त्वामिमां
त्यक्त्वा धीरयतेऽथ गायतु भवानोन्तत्सदोमित्यदः ॥ ७॥
ब्रूयाः स्वस्तिवचः समस्तजगते मत्तो न किञ्चिद्व्यथा
भूयात्प्राणिषु तुङ्गनीचसमनुस्यूतोऽस्मि नित्यं विभुः ।
आशा साध्वसनाकमृत्युनिरयावल्यामनास्थो गलद्-
बन्धो धीरयतेऽथ गायतु भवानोन्तत्सदो मित्यदः ॥ ८॥
कीदृग्गच्छति जीवने तव तनुर्मा चिन्तितो भूः सुहृत्
कामं कर्मवशादियं विचरतु, स्यास्तुल्यनिन्दास्तुतिः ।
एकत्वे सति कोऽस्तु पूजकजनः पूज्योऽथवा निन्दकः
शान्तो धीरयतेऽद्य गायतु भवानोन्तत्सदोमित्यदः ॥ ९॥
लोभे लाभविलासकीर्तिकलिते सत्यं कुतो लभ्यते
नारीं पश्यति यः कलत्रमिति स प्राप्नोति किं पूर्णताम्?
मर्त्यः क्रोधममत्वयुग्मवशगो मुक्तो न मायाभयात्
त्यक्त्वैतन्ननु गीयतां स्थिरयते! ॐ तत्सदोमित्यदः ॥ १०॥
वर्तस्वेह निराश्रयस्तव निवासार्हं न किञ्चित्सखे!
आकाशं पटलं तृणं च शयनं भक्ष्यं तथा याचितम् ।
अन्नं पानमदूषणं किल भवेदात्मज्ञ! यत्प्राप्यते
यान्स्वाधीनधुनीव गायतु यते! ॐ तत्सदोमित्यदः ॥ ११॥
द्वित्रा एव भवन्ति तत्त्वनिरता अन्ये द्विषन्तो हस-
न्त्येतान्प्रापय भासमन्धतमसात्प्रोद्धृत्य मायावृतेः ।
देशाद्देशमवाप्य दुःखसुखयोस्तुल्यः स्वतन्त्रो भ्रमन्
गीतं धीरयतेऽद्य गायतु भवानोन्तत्सदोमित्यदः ॥ १२॥
कालेनोद्भवकर्मबन्धनबलादात्मा विमुक्तो भवे-
न्नोत्पत्तिर्न भवान्न चाहमथवा मर्त्यो न वापीश्वरः ।
जातः ``सर्वमहं'' तथा''खिल''महं स्वानन्दसान्द्रो विभु-
र्जानन् ``तत्त्वमसी''ति गायतु यते ॐ तत्सदोमित्यदः ॥ १३॥
स्वामिविवेकानन्दरचिता ``सन्न्यासिनः गीतिः''
शराङ्कवसुचन्द्रवर्षे, जुलाई मासे, सहस्रद्वीपोद्याने विरचिता)
साहित्याचार्य-अध्यापक-एम. ए. -भण्डारकरोपाह्वत्र्यम्बकशर्मणा
संस्कृतश्लोकेषु अनूदिता ॥
Encoded by Sunder Hattangadi,
Proofread by Sunder Hattangadi
Song of the Sannyasin by Swami Vivekananda
Sanskrit translation by bhANDarakara
The English meaning is available at
http://www.ramakrishnavivekananda.info/vivekananda/volume\_4/writings\_poems/the\_song\_of\_the\_sannyasintm
Also see Marathi, Hindi, Bangla translation links at
https://maasarada.blogspot.com/2015/06/uthaao-sanyaasi-uthao-se-taan-himaadritml
There is one another sanyAsagItI in Marathi available in audio on this site.