सप्तपुरीस्तोत्रम्
%७६
स्या अयोध्ये रामपादसुपुनीतेऽमृतत्वदा ।
भूयो मास्तु ममावृत्ति पुरीषु सरयूवते ॥ १॥
आध्यानान्मथुरे ते मे सद्वासोऽस्तु निरन्तरम् ।
रामकृष्णाङ्घ्रिसम्पूते वरदे यमुनावते ॥ २॥
पृथुमार्गप्रदा माये भव भागीरथीवृते ।
वरासि त्वां हरिद्वारं सुतीर्थं प्रवदन्ति हि ॥ ३॥
ममाघं हर काशि त्वमुच्चैस्समणिकर्णिके ।
भूयान्न मे पुनर्जन्म भवपादाञ्चिते भवे ॥ ४॥
सा काञ्चीनगरी मह्यत्रासहा शिवविष्णुपूः ।
आशीःप्रदाद्य मां कृत्वा लुप्तैनसमवत्वियम् ॥ ५॥
लोकान्तरानपेक्षं मां मता कालेश्वरादृता ।
नाचीर्णतपसं पातु मां मोहात्क्षिप्रयादृता ॥ ६॥
स्याअनन्ताश्रये मेऽद्य मोक्षदा सिन्धुतीरगे ।
त्वं वन्द्यास्यखिलैः सर्वप्रदा द्वारवतीश्वरी ॥ ७॥
य तिराड्राजधान्याद्यं नय कृष्णातटस्थिते ।
लोकात्माख्यमाहुस्त्वां लोका नृसिंहवाटिकाम् ॥ ८॥
कर्मभिर्नृत्यन्ति नरस्तत्सि मायाख्यबन्धनम् ।
हन्ति यस्तद्वाटिकेयं सर्वेषां हितदा सदा ॥ ९॥
स्या अ योध्ये रामपाद सु पु नीतेऽमृतत्वदा ।
भू यो मास्तु ममावृत्ति पु री षु सरयूवृते ॥ १॥
आ ध्या नान्मथुरे ते मे स द्वा सोऽस्तु निरन्तरम् ।
रा म कृष्णाङ्घ्रिसम्पते व र दे यमुनावृते ॥ २॥
पृ थु मार्गप्रदा माये भ व भागीरथीवृते ।
व रा सि त्वां हरिद्वारं सु ती र्थं प्रवदन्ति हि ॥ ३॥
म मा घं हर काशि त्व मुच् चै स्समणिकर्णिके ।
भू या न्न मे पुनर्जन्म भ व पादाञ्चिते भवे ॥ ४॥
सा का ञ्चीनगरी मह्य त्रा स हा शिवविष्णुपूः ।
आ शीः प्रदाद्य मां कृत्वा लु प्तै नसमवत्वियम् ॥ ५॥
लो कां तरानपेक्षं मां म ता कालेश्वरादृता ॥
ना ची र्णतपसं पातु मां मो हात्क्षिप्रयादृता ॥ ६॥
स्या अ नन्ताश्रये मेऽद्य मो क्ष दा सिन्धुतीरगे ।
त्वं वं द्यास्यखिलैः सर्वप्र दा द्वारवतीश्वरी ॥ ७॥
य ति राड्राजधान्याद्यं न य कृष्णातटस्थिते ।
लो का त्माख्यमाहुस्त्वां लो का नृसिंहवाटिकाम् ॥ ८॥
कर्मभिर्नृत्यन्ति नरस्तत्सि मायाख्यबन्धनम् ।
हन्ति यस्तद्वाटिकेयं सर्वेषां हितदा सदा ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं
नृसिंहवाटिकान्वितसप्तपुरीस्तोत्रं सम्पूर्णम् ।