सप्तविधानुत्तरस्तोत्रम्
नमः श्रीलोकनाथाय ।
अमितरुचिशिरःस्थं पद्मपत्रायताक्षं
दुरितकृतविनाशं मोहमायाऽहिताक्षम् ।
करधृतकनकाब्जं लोकपालैकदक्षं
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ १॥
अरुणवरुणशोभाबोधिविज्ञानहेतुं
मणिमयमुकुटं संसारकाम्भोधिसेतुम् ।
कृतमनसिजनाशं बोधिसत्त्वादिकेतुं
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ २॥
सरसिजकृतवासं दूरकन्दर्पपाशं
सुरनरदनुजाशं पूर्णचन्द्रप्रकाशम् ।
सुकृतजनविलासं कोटिसूर्यावभासं
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ ३॥
उरसि विहितनागं मोचिताशेषरागं
भवजलधिविभागं मोक्षसौख्यैकमार्गम् ।
प्रतपितकनकाङ्गं बोधिबोधैकरागं
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ ४॥
जिनवरसुतराजं मुक्तिमालाविराजं
सुललितफणिराजं कीर्णिताचाभिराजम् ।
प्रमुदितवलिराजं पालितामर्त्यराजं
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ ५॥
धृतमधुकररूपं क्षुप्तिपासान्तकूपं
सुचरितहयरूपं सिंहलादन्तभूपम् ।
अगुरुसुरभिधूपं धारिताशेषरूपं
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ ६॥
त्रिविधविधृतपापं मे हरन्तं त्रितापं
प्रतिदिनमितिजापं देवचक्रे विलापम् ।
निरयभयकलापं भेदकाज्ञानचापं
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ ७॥
विहितशुभजनानां मुक्तितापोद्यतानां
विगलितकलुषाणां भक्तिपूजारतानाम् ।
वरकुशलसमूहं संप्रपेदे स्वभक्त्या
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ ८॥
दशबलकृतसिद्धिं संवधे बुद्धबोधिं
जननमरणभीतं मारपाशाभिनीतम् ।
मनसि मलिनवृत्ते पूरिताज्ञानवित्ते
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ ९॥
प्रवरसुगतरत्नं धर्मकायं संसङ्घं
क्षरणमिह प्रयामि कारितानङ्गभङ्गम् ।
प्रमुदितमनसाप्तं बोधिलाभैकयत्नं
प्रणमितशिरसाऽहं नौमि तं लोकनाथम् ॥ १०॥
श्रीलोकनाथचरणाम्बुजभक्तिपद्म-
पीयूषनन्दरचितानतिविस्तराढ्यम् ।
यत्सप्तधार्चनयुतं सरसातिहृद्यं
सौख्यावतीगमनमार्गकरं तु सद्यः ॥ ११॥
स्तुत्वा लोकगुरुं मुनीश्वरमिमं सर्वार्थसिद्धिप्रदं
यत्पुण्यं समुपार्जितं व्रजतु तत्पुण्येन सौख्यावतीम् ।
श्रीलोकेश्वरपादपङ्कजरसोल्लासैकहर्षोदितं
लोकक्लेशहरं सुदुर्जयवरं जित्वा प्रमुक्तामलम् ॥ १२॥
इति श्रीमदार्यावलोकितेश्वरस्य सप्तविधानुत्तररस्तोत्रं सम्पूर्णम् ॥