सरसं सुखदं नः संस्कृतम्
सरसं सुखदं नः संस्कृतम्
राजते भारते स्नारतम् ॥ ध्रुवपदम्॥
माहेश्वरसूत्रादानीतं
अष्टाध्याय-भूमौ-वर्धितं
महाभाष्य वृत्तौ वार्त्तिके टीकायां
व्याकरणे योगे वेदभूमिकायां
दर्शने ब्रह्मणि साक्षातम् ।
सरसं सुखदं नः संस्कृतम् ॥ १॥
साहित्य-संसदि भाषितं
विज्ञानभास्करज्वालितं
भूगोले खगोले स्मृतिसंहितायां
ज्योतिषे विज्ञाने ऐतिह्यकथायां
सत्यायुर्वेदे हि शाश्वतम् ।
सरसं सुखदं नः संस्कृतम् ॥ २॥
संस्कार-सभता-मार्जितं
जातिभेदं विना चालितं
महाभारतीये रामायणे वापि
भागवते ग्रन्थे गीतासु वा क्वापि
सर्वत्रापि मधु स्रावितम् ।
सरसं सुखदं नः संस्कृतम् ॥ ३॥
Composed, encoded, proofread by Dr. Pradipta Kumar Nanda,
Kendrapara, Orisa pknanda65 at gmail.com