सर्वसम्मता भवन्तु

सर्वसम्मता भवन्तु

जून माससमारम्भे केरलेषु यथाविधि । विद्यालयाः यथापूर्वं उद्धाट्यन्ते च सर्वशः ॥ १॥ छात्रास्त्वुत्साहिनो भूत्वा धृत्वा वस्त्रं च नूतनम् । आदाय नूतनं छत्रं गच्छन्ति पुण्यमन्दिरम् ॥ २॥ प्रप्य विद्यालयं तूर्णं चारूवर्णैश्च लेपितम् । आचार्यांस्तु प्रणम्या /थ स्वस्थानमार्जयन्तु भोः ॥ ३॥ भाषापठनसन्दर्भे संस्कृतं सर्वसम्मतम् । स्वीकुरत तमेवात्र भवतां श्रेयसे मुदा ॥ ४॥ संस्कृतं सर्वभाषाणां जननी शक्तिशालिनी । सरलं ललितं चैव संस्कृतं लोकरञ्जकम् ॥ ५॥ पठनात् संस्कृतस्यास्य जायेत परमोन्नतिः । पराश्रयं विना नित्यं जीवितुं प्रभविष्यथ ॥ ६॥ परनिन्दां परित्यज्य परसाहाय्यतत्पराः । अहङ्कारं च त्यक्त्वाथ भवत चोत्तमोत्तमः ॥ ७॥ पुराणेषु पुराणं तत् नवीनेषु च नूतनम् । संस्कृतं सर्वलोकेभ्यः चित्त सौख्यप्रदायकम् ॥ ८॥ इतिहासपुराणानां सारसर्वस्वमार्जितम् । सुभाषितसुगन्धैश्च भूषितं मम संस्कृतम् ॥ ९॥ पठत पठत छात्राः संस्कृतं हि निरन्तरम् । पठन्तो संस्कृतं नित्यं भवेयुः सर्वसम्मताः ॥ १०॥ (२०२३-२४ विद्यालयीय वर्षस्य शुभकामनाः ) -- विजयन् वि. पट्टाम्बि
% Text title            : Sarvasammata Bhavantu
% File name             : sarvasammatAbhavantu.itx
% itxtitle              : sarvasammatA bhavantu gItam (vijayan paTTAmbI rachitam)
% engtitle              : sarvasammatAbhavantu
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : vijayan vi. paTTAmbI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text)
% Latest update         : August 11, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org