सर्वेषां नो जननी
सर्वेषां नो जननी
भारतधरणी कल्पलतेयं
जननी-वत्सल-तनय-गणैस्तत्
सम्यक् शर्म विधेयम् ॥ ध्रु॥
हिमगिरि-सीमन्तित-मस्तकमिदं
अम्बुधि-परिगत-पार्श्वं
अस्मज्जन्मदमन्नदमनिशं
श्रौतपुरातनमार्षम् ॥ १॥
विजनितहर्षं भारतवर्षं
विश्वोत्कर्षनिदानं
भारतशर्मणि कृतमस्माभिः
नवमिदमैक्यविधानम् ॥ २॥
भारतहितसम्पादनमेव हि
कार्यं त्विष्टविपाकं
भारतवर्जं न किमपि कार्यं
निश्चितमित्यस्माकम् ॥ ३॥
भारतमेका गतिरस्माकं
नापरास्ति भुवि नाम ।
सर्वादौ हृदयेन च मनसा
भारतमेव नमाम ॥ ४॥
- राधानाथराय
Encoded and proofread by Shubha shubhazero at gmail.com