सत्याग्रहः
(गीतिका) (मात्रासमक जाति)
सत्याग्रहं इति शस्त्रमुदारं
दीन-हीन-भय-दारकमस्त्रम् ।
देश-शत्रु सम्मर्दन-युक्तिः
आङ्ग्ल-राज्य-संहारक-शक्तिः ॥ सत्या०॥
सत्य-निष्ठता, सत्य-श्रेष्ठता,
सत्य-प्रेष्ठता, सत्या वाणी ।
सत्य-कर्मता, सत्य धर्मता
सत्याग्रहं इति सत्य-चित्तता ॥ सत्या०॥
सत्याग्रह इति 'सत्यं' ज्योतिः,
'शिवं'-मिति लोक-क्षेम-सम्पुष्टिः ।
'सुन्दरं'-मिति जन-मानस-तुष्टिः
'सत्यं शिवं सुन्दरं' सिद्धिः ॥ सत्या०॥
आत्मशक्ति-सम्पोषण-मन्त्रं
ग्लानि-दोष-संशोषण-यन्त्रम् ।
शोक-शोष-परिशोषण-तन्त्रं
पराधीनता पाश-लवित्रम् ॥ सत्या०॥
सत्याग्रहं इति परमा शक्तिः
शौर्य-धर्य-गुण-भक्त्यनुरक्तिः ।
पराधीनता-पाप निवृत्तिः
स्वातन्त्र्यामृत-पान-प्रवृत्तिः ॥ सत्या०॥
सत्याग्रहं इति परमा बुद्धिः
गुण-गण-वृद्धिर्मानस-शुद्धिः ।
परद्रोहाद् विरतिर्गुण-रागः
सत्य-रक्षणे जीवन-त्यागः ॥ सत्या०॥
सत्याग्रहं इति पावन-शस्त्रं
अरि-दल-दलन-सुदर्शन-चक्रम् ।
जीवन-ज्योति, शुचिता-तन्त्रं
देश-समृद्धि शान्ति-सुख-मन्त्रम् ॥ सत्या०॥
सत्याग्रहं इति वीर-विभूतिः,
धीर-शूर-जन-रक्षक हेतिः ।
त्याग-तपोबल-गौरव-भूतिः
मानसशक्ति-मान-धन-सूतिः ॥ सत्या०॥
सत्याग्रहं इति शक्ति-सङ्ग्रहः
रोष-दोष मद-मोह-निग्रहः ।
भारतभूमि-पाश-भय-नाशं
स्वातन्त्र्यामृत-विरचित-हासम् ॥ सत्या०॥
सत्ये सुखदं सदा आग्रहः
गान्धि-वर्णितो दैन्य निग्रहः ।
भारत-शक्तिः, भारत-शस्त्रः,
शत्रु-सैन्य-दल-नाशकमस्त्रम् ॥ सत्या०॥
Proofread by Mandar Mali