शाक्यसिंहस्तोत्रम् ६
नौभि श्रीशाक्यसिंहं सकलहितकरं धर्मराजं महेशं
सर्वज्ञं ज्ञानकायं त्रिमलविरहितं सौगतं बोधिराजम् ।
धर्माधारं मुनीन्द्रं दशबलबलिनं श्रीघनं विश्वरूपं
सम्बुद्धं लोकनाथं सकलभयहरं संस्थितं मर्त्यलोके ॥ १॥
यस्त्वं धर्माधिमेशं(पेशः) सकलजिनसुतैः संश्रितः श्वेतकेतु-
रित्याख्यां बोधिहेतुस्तदनु च तुषिता चागता बोधिराज ।
मैत्रेयं स्थापयित्वा प्रमुदितमनसं स्वासने चाभिषिञ्च्य
मायागर्भे पवित्रेऽशुचिमलरहिते रत्नव्यूहे निवेश ॥ २॥
गर्भे स्थित्वाऽपि यस्त्वं सकलहितकरीं धर्मव्याख्यां करोषि
काले मातुः सुकक्षात्सकलनिजकरैः काशयत् संप्रजातः ।
लोकाचारं च कृत्वा विहितदशविधिं वै विवाहादि तत्तत्
त्यक्त्वा सर्वांश्च राज्यं सकलजनहिते निर्गतं त्वां नमेऽहम् ॥ ३॥
ऊर्णाकोशाच्च यस्य प्रतिदिनमसकृत् दक्षिणावर्तरोचिः
प्रोद्यद्देदीप्यमानत्रिभुवनकुहरध्वस्तमोहान्धकारम् ।
चत्वारिंशत्सुदन्तोद्गलितकरचयैर्भापयन्नारकीयान्
प्रोद्धृत्वा स्वर्गलोके सुरतरुकलिते स्थापिता येन वन्दे ॥ ४॥
यत्पाणी चक्रचिह्नावभिमतफलदौ दानपारङ्गतत्वो-
द्यत्कान्ता भूमिदेवी स्वगणपरिवृता भेदयित्वाऽवनिं ताम् ।
स्थित्वाग्रे पूजयित्वा नमुचिमभिगतं भर्त्सयित्वा द्विषन्तं
साक्षीभूता निलीना प्रणमितशिरसा त्वां नमेऽहं जिनेन्द्रम् ॥ ५॥
यस्योद्ग्रीवस्य चाग्रे विधिहरमधुहृल्लोकसंस्थैः प्रवीणैर्
द्रष्टुं नैवाभिशक्त्या किमु मनुजपुरे वासितैर्मादृशैश्च ।
ब्रह्माण्डं लङ्घयित्वा तरणिशशधरौ द्यौश्च नक्षत्रलोकं
ऊर्ध्वं लोकोत्तराख्ये निजभुवनवरे भासितं त्वां नमेऽहम् ॥ ६॥
यद्वक्त्रं पङ्कजाभं सुरदनवसनाकर्णिकाकेसराढ्यं
ब्रह्माण्डं जूम्भतेऽस्मिन् भुवनगणवृत्तं संश्रितं कर्णिकावत् ।
दृष्ट्वा सम्मूर्च्छितोऽभून्नमुचिरनुचरैस्त्रासि सर्वज्ञनाथ
कृत्वा केचित्प्रयाताः शरणमभिमतं श्रीघनं त्वां नमेऽहम् ॥ ७॥
सङ्ख्याज्ञानप्रवीणास्त्रिभुवनसदने पण्डिता ये वसन्ति
तैः सर्वैर्मीलयित्वा यदि तव महिमा वर्ण्यते कल्पकालम् ।
पारं गन्तुं समर्था नहि निखिलगुणक्षीरसिन्धोः कथञ्चिद्
एकाकी किं समर्थास्तदपि मम मनो बोधनार्थं नमे त्वाम् ॥ ८॥
पठ्यन्ते स्तोत्रमेतत्सुरपतिरचितं स्रग्धरावृत्तसंज्ञं
शक्राद्या लोकपालाः प्रतिपदनुचराः सङ्करिष्यन्ति रक्षाम् ।
सौख्यं भुक्त्वेह लोके तदनु सुरपतेः कल्पवृक्षाभिकीर्णे
स्थित्वा गच्छन्ति चान्ते सुगतसुतमहीं सर्वलौकैकगम्याम् ॥ ९॥
इति सुरपतिकृतं श्रीशाक्यसिंहस्तोत्रं सम्पूर्णम् ॥