शाक्यसिंहस्तोत्रम् ८
एषो हि भवतस्तातो जन्ममृत्युजरान्तकः ।
सर्वार्थसिद्धनाम्नेति शाक्यसिंहोऽधुना सुत ॥ १॥
यस्य छायामुपाश्रित्य दिव्यातिसुन्दरो भवेः ।
द्वात्रिंशल्लक्षणधरं पितरं दर्शयाधुना ॥ २॥
चतुरशीतिसाहस्रं स्त्रीणां विहाय निर्मदः ।
तपोवनमगाद् योऽसौ वन्दयैनं महर्द्धिकम् ॥ ३॥
सप्तरत्नानि राज्यं च महैश्वर्यपदं वरम् ।
हित्वा प्रव्रजितो योऽसौ तं दर्शय जगद्गुरुम् ॥ ४॥
मायाख्यायाः पितामह्या योऽजनद्दक्षकुक्षितः ।
लुम्बिन्यामुदयात् सूर्य इव तं पितरं नम ॥ ५॥
अभयायाः कुलेश्वर्या येन पादाम्बुजे नतम् ।
त्रैधातुकाधिपं देवं पितरं त्वं सदा नम ॥ ६॥
विश्वामित्रमुपाध्यायं योऽयोजयत् सुसंवरे ।
बालक्रीडाभिरक्तात्मा तातमेनं सदा नम ॥ ७॥
जम्बूतरुसमासीनं पञ्चर्षयो हतत्विषः ।
निर्मानिनः प्राभजन् यमेनं तातं सदा नम ॥ ८॥
पितरं बोधयित्वा योऽत्याजयत्तु षडंशकम् ।
दयाकरं जगद्वन्द्यं जनकं प्रणमात्मज ॥ ९॥
योऽजयद्देवदत्तादीन् मानिनः सर्ववित् सुधीः ।
सर्वफलादिदं विज्ञं सुधियं जनकं भज ॥ १०॥
यात्रायामातुरं जीर्णं मृतं दृष्टिविवर्जितम् ।
स्वयं विज्ञोऽपि पप्रच्छ सदा तं जनकं भज ॥ ११॥
कामाग्निर्नाहरद्यस्य चित्तं प्रमदवासिनः ।
निरञ्जनं निर्विकल्पं सुत तं जनकं भज ॥ १२॥
कनकाश्वं समारुह्य छन्दकेन बहिर्ययौ ।
देशान्निशीथे त्रिदशैः स्तूयमानं मुदा भज ॥ १३॥
हयं निवर्तयामास छन्दकं च तपोवनात् ।
सुकण्ठाभरणं दत्त्वा भणैनं वनचारिणम् ॥ १४॥
नैरञ्जनामुपासृत्य प्राकरोद् यस्तपोव्रतम् ।
जगद्धितार्थं षड्वर्षमेनं भज तपःपरम् ॥ १५॥
बोधिद्रुमसमासीनो जित्वा मारं सुदुःसहम् ।
प्रालभद्बोधिरत्नं यो दर्शयैनं तथागतम् ॥ १६॥
मृगदावस्थितः काश्यां धर्मचर्क्र प्रवर्तयन् ।
ब्रह्मादिभिर्वृतो योऽसौ दर्शयैनं गुरुं सुत ॥ १७॥
इति मात्रोदितं श्रुत्वा राहुलः सोऽतिविस्मितः ।
प्रणम्य पितरं पश्यन् मुदमाप स्मिताननः ॥ १८॥
इति श्रीशाक्यसिंहस्तोत्रं यशोधराकृतं सम्पूर्णम् ॥