शूरा वयम्
शूरा वयं धीरा वयं वीरा वयं सुतरां
गुणशालिनो बलशालिनो जयगामिनो नितराम् ॥
दृढमानसा गतलालसाः प्रियसाहसाः सततं
जनसेवका अतिभावुकाः शुभचिन्तका नियतम् ॥
धनकामना सुखवासना न च वञ्चना हृदये
ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये ॥
गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः
यामो वयं समराङ्गणं विजयार्थिनो बालाः ॥
जगदीश हे परमेश हे सकलेश हे भगवन्
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ॥
Encoded and proofread by Shubha shubhazero at gmail.com