शैवागम-पुराणेषु शिवताण्डवभेदाः - अध्ययनम्
शैवागम-पुराणेषु प्रतिपादिताः शिवताण्डवभेदाः - एकं संक्षिप्तं अध्ययनम् ।
सारांशः
भारतीयसंस्कृतौ भगवान् शिवः केवलं संहारकर्ता न, अपितु सृष्टि-स्थिति-संहार-तिरोभाव-अनुग्रहाणां विश्वनियन्ता इति परिगण्यते । तस्य दिव्यनृत्यं ``ताण्डवम्'' इति प्रसिद्धम् । ताण्डवनृत्यं न केवलं कलारूपम्, अपि तु गम्भीरदार्शनिकतत्त्वानां विश्वचैतन्यस्य च प्रतीकमस्ति । वेदेषु रुद्रस्य गतिशीलस्वरूपस्य संकेतः दृश्यते, परन्तु ताण्डवस्य विस्तृतवर्णनं पुराणेषु, शैवागमेषु, नाट्यशास्त्रे तथा उत्तरकालीनशैवसाहित्ये विशेषतया प्राप्यते ।
शिवस्य नटराजस्वरूपं ताण्डवदर्शनस्य परमोदाहरणम् । नटराजस्य डमरुः सृष्टेः, अग्निः संहारस्य, अभयमुद्रा अनुग्रहस्य, अपस्मारपुरुषोऽज्ञानस्य, ऊर्ध्वपादः मोक्षस्य च प्रतीकत्वेन व्याख्यायते । अतः ताण्डवं विश्वचक्रस्य दार्शनिकव्याख्यानरूपेण मन्यते ।
शैवपरम्परायां ताण्डवस्य अनेकभेदाः वर्णिताः सन्ति । दक्षिणभारतीयागमपरम्परायां विशेषतः आनन्द-, सन्ध्या-, कालिका-, त्रिपुर-, गौरी-, संहार-, ऊर्ध्वताण्डवम् इति सप्तभेदाः प्रसिद्धाः । आनन्दताण्डवं चिदम्बरस्थनटराजस्य आनन्दस्वरूपं निरूपयति । सन्ध्याताण्डवं कालपरिवर्तनस्य द्योतकम् । कालिकाताण्डवं शक्तिशिवयोः ऐक्यं तथा दुष्टनिग्रहम् अभिव्यञ्जयति । त्रिपुरताण्डवं त्रिपुरासुरवधानन्तरं धर्मविजयस्य प्रतीकम् । गौरीताण्डवं शिवपार्वत्योः सामरस्यं प्रकाशयति । संहारताण्डवं कल्पान्ते जगत्संहारस्य रूपम् । ऊर्ध्वताण्डवं तु शिवस्य पराक्रमं, योगवैभवं मोक्षदायकत्वं च प्रतिपादयति ।
दार्शनिकदृष्ट्या ताण्डवं केवलं नृत्यं नास्ति; अपि तु विश्वस्य नित्यपरिवर्तनशीलतायाः प्रतीकं वर्तते । काश्मीरशैवदर्शने ताण्डवं शिवस्य स्पन्दशक्तेः प्रत्यक्षाभिव्यक्तिरिति निरूपितम् । तस्मात् जगतः प्रत्येकः स्पन्दः, प्रत्येकः परिवर्तनः, प्रत्येकं जीवनचक्रं च शिवताण्डवस्यैव अभिव्यक्तिरिति मन्यते ।
उपसंहारतः वक्तुं शक्यते यत् शिवताण्डवं भारतीयदार्शनिकपरम्परायाः एकं महत्त्वपूर्णं तत्त्वम् । तत्र धर्मः, दर्शनम्, नाट्यम्, आध्यात्मिकता, कला च समन्वितरूपेण दृश्यन्ते । ताण्डवस्य सम्यगध्ययनं शैवदर्शनस्य, भारतीयसंस्कृतेः तथा नाट्यपरम्परायाः गहनबोधाय अत्यन्तमुपकारकम् ।
सन्दर्भग्रन्थाः
शिवपुराणम्
स्कन्दपुराणम्
नाट्यशास्त्रम्
कामिकागमः
कारणागमः
तन्त्रालोकः
टिप्पणी
शैवागमेषु ``सप्तताण्डव'' इति सूची सर्वत्र समानरूपेण न दृश्यते; भिन्नेषु आगमेषु तथा परम्परासु ताण्डवभेदानां नाम, संख्या, क्रमश्च किञ्चित् परिवर्तते ।
-- प्रो. प्रदीप्तकुमारनन्दः (सेवानिवृत)
श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
Retd.Head, Dept.of Sarvadarshan
SJSV,Puri