शतशतकोटिशरत्पर्यन्तम्
शतशतकोटिशरत्पर्यन्तं
प्रवहतात् संस्कृतमन्दाकिनी ॥ ध्रुवम्॥
सिन्धु-सुतुद्रीसरस्वतीनां
तटे ऋषीणां ध्यानपराणाम् ।
होमधूम-पावित-लोकानां
अत्रिभृगूणां छन्दोवाणी ॥ १॥
वाल्मीकिमुनि-व्यासविरचिता
रामकृष्णयोः पावनगाथा ।
अखण्डदीपो भगवद्गीता
कर्मयोग-सन्देश-दायिनी ॥ २॥
इयमस्माकं धर्मभारतीव्व्
राष्ट्रैक्यस्य च महती स्फूर्तिः
विना संस्कृतं नैव संस्कृतिः
इह परत्र कल्याणकारिणी ॥ ३॥
Encoded and proofread by Shubha shubhazero at gmail.com