श्रीभावानन्दाचार्यकृतं शिक्षादशकम्
रामानन्दं गुरुं नत्त्वा ह्यानन्दभाष्यकारकम् ।
शिक्षाया दशकं कुर्वे सदाऽऽनन्दप्रदायकम् ॥ १॥
नित्यं विहाय निद्रां हि मुहूर्त्ते ब्रह्मसंज्ञके ।
चिन्त्यतां ब्रह्मसंज्ञश्च सीतानाथः परात्परः ॥ २॥
हन्तुं हि लोकदुःखारिं हर्त्तुं चाज्ञानजं तमः ।
वीक्षितुं सत्यपन्थानमुत्थानं सुविधीयताम् ॥ ३॥
साहाय्यं क्रियतां नित्यं दीनानामिष्टसिद्धये ।
दुःखं च दुःखिनां दृष्ट्वा दुःखिना स्वेन भूयताम् ॥ ४॥
मनसा वचसा चाथ कर्मणा चर्यतां तथा ।
सदयः स्यात् सदाचारी सत्यभाषी यथा जनः ॥ ५॥
लोभक्रोधमदादींश्च महाशत्रून् सुहन्यताम् ।
एतेषां बलवत्त्वे तु श्रियतां साधुसङ्गतिः ॥ ६॥
सद्विचारसदाचारावुपादेयौ सदा भुवि ।
तदर्थं मानवैर्नित्यं सत्सेवा सुविधीयताम् ॥ ७॥
निःश्रेयसस्य सन्मार्गो रामभक्तिर्विनिश्चिता ।
तस्याश्चालम्बनं कार्यं सर्वं त्यक्त्वा मुमुक्षुभिः ॥ ८॥
स्वसमः क्रियतां लोको गुणिना सुखिना तथा ।
उभावप्यधिकां शोभां प्राप्नुयातां तथा भुवि ॥ ९॥
आलस्यं वर्जीयत्वाऽत्र सत्कर्म क्रियतां जनैः ।
श्रीरामायार्पितं कर्म श्रेष्ठं नैष्कर्म्यतो मतम् ॥ १०॥
आत्मानात्मद्वयज्ञानमर्ज्यतां सद्गुरोः सदा ।
गुरुं रामं च संसेव्य तरणीयो भवार्णवः ॥ ११॥
शिक्षाया दशकं चेदं रामानन्दार्यशिक्षितम् ।
भवाब्धितारकं भूयाद् भावानन्दार्यनिर्मितम् ॥ १२॥
इति श्रीभावानन्दाचार्यकृतं शिक्षादशकं सम्पूर्णम् ।
Encoded and proofread by Mrityunjay Pandey